________________
१४
प्रत्यक्षपरिच्छेदः। वस्तु कस्यचित् प्रत्यक्ष कस्यचित् परोक्षमिति । ननु इदं द्वैविध्यं केन प्रतीयते ? । न तावत्प्रत्यक्षेण । परोक्षे तस्याप्रवृत्तः; प्रवृत्तौ वा प्रत्यक्षतैव स्यात् ॥ अथ कस्माद्ध मदर्शनात् परोक्ष वहौ प्रतीतिः प्रत्यक्षा ? | नाऽनुमानम् । यता व्याप्तिस्मरणेनात्मानमनुमानम् । न चेह तदस्ति । नैतदस्ति । यतोऽक्षासंबद्धऽपि वस्तुनि यद्यक्ष ज्ञानं प्रवर्तते तदा सकलपरोक्षवस्तुविषयं प्रवत्त त । न हि सन्निहितासनिहितयोः पक्षत्वे विशेषोऽस्ति । अथ संबद्धधूमदर्शनानातिप्रसङ्गः । तदसत् । यतः किं तदेव धूम दर्शनं परोक्षवन्हिविषयं कथ्यते, किं वा तज्जनितमन्यदिति ।। न तावत्तदेव । न ह्यन्यवस्तुग्राहकमन्यस्य ग्राहकम् । न च तथा प्रतीतिरस्ति । न हि तदृशोऽन्यदेशो वा वन्हिस्तदर्शने प्रतिभामते । ननूक्त संबद्धधूमदर्शनात्तदर्शन मिति । उक्तमिदं किं त्व युक्तम् । यतो यद्यप्रतीतसंबन्धोऽपि धूमो धूमध्वजप्रतीति जनयति, किं न मालिकेरद्वीपायातस्यापि ? । श्रथ प्रतीतसंबंधस्याभ्यासादकस्मात्प्रतीतिः संबन्धस्मृति नापेक्षते इत्युच्यते तेनस्मरन्नेवान्तली नं सबन्ध तथा प्रत्येति । अन्यथागृहीतसंबंधस्यास्य च को विशेषः ? । किं च प्रत्यक्षाप्रतीतौ विशेषरूपस्य किं न प्रतीति: । कथ न दूरादिति चेत्। न, तत्रापि व्यक्तिविशेषाप्रतीतावपि भास्वरस्य रूपस्य प्रतिभासनात् । न च नथेहेति । तन्न परोक्षे प्रत्यक्ष प्रवर्तत इति । अन्यथा परोक्षमेव तन्त्र स्यात्। न चेतरेतराश्रयत्वम्। यतः स्वकारणासाक्षात्कारि विज्ञानमुत्पाद्यमानं स्वविषयस्य प्रत्यक्षतां व्यवस्थापयति । तन्न परोक्षे प्रत्यक्षस्य प्रवृत्तिरिति । नाप्यनुमानस्य प्रत्यक्षे । न च मानान्तरमस्ति, सद्भावे वा विषयद्वैविध्यादित्यनर्थकमिति । अत्रोच्यते । प्रत्यक्ष हीदन्तया स्वविषयं परिबिन्दत् |