________________
जैनवार्तिकवृत्तौ। किं च ततकालयेोगेन तस्य साक्षात् किया यदा । तदेदानोमस स्वेऽपि तस्यास्तित्वमदुर्घटम् ॥
अच यस्य भावी सुतस्तदनुभूयमानतया दृष्टस्तेनाप्रती. यमानतायाः कथमभ्रान्तता ? । तदप्यसत् । यथा स दृष्टः शरदादिकालयुक्तस्तथा तस्य न बाधितत्वम् । तत्कालयोगस्तु नते न दृष्टस्तपाप्रतीतावपि नास्ति दोषः । __यदपरिज्ञाने दूषणाममाणि। तदसत् । यतश्चूडामणिप्रभः तिकेवलिनामतीन्द्रियार्थानामहत्प्रणीतत्वेन सुप्रसिद्धत्वात् । यच्चान्यदुक्तं तदसंबद्भुतयोपेक्षितमिति विस्तरेण सर्वज्ञवादटीकायामुक्तमिति विरम्यते।
बाध्यकलङ्कविकलं निखिलप्रमाण सामान्यलक्षणमिदं विवृतं स्वबुद्ध्या। यत्तेन तैर्थिकमतानि निरस्य नीतं जान व्यतीतमनसः परमां प्रतिष्ठाम् ॥
इति श्रीशान्त्याचार्यविरचितायां वार्तिकवृत्ती प्रथमः परिच्छेदः ॥ १॥
एवं प्रमाणसामान्य लक्षणमभिधायेदानीं संख्यालक्षणगाचरफलं विप्रतिपत्तिनिराकरणद्वारेण विशेषलक्षणमभिधातुकामः व्यक्तिभेदकथनमन्तरेण प्रतिव्यक्तिनियतं वक्षसं कथयितुं न शल्पत इति व्यक्तिभेदमेव तावत् कपयितुमाह-ज्ञानापेक्षामित्यादि । ज्ञानापेक्षं प्रमेयस्य द्वैविध्यं न तु वास्तवम् । दूरासन्नादिभेदेन प्रतिमासं भिनत्ति यत् ॥ १॥ - न हि नीलपीतवस्तुस्थित्या प्रमाणविषयस्य किञ्चिदै विध्यमस्ति, किंतु मातारमपेक्षते ज्ञानापेक्षम् । तथाहि-तदेव