________________
१२
प्रत्यक्षपरिच्छेदः। . न चैवं लङ्घनादेव लखनं बलयत्नयोः ॥ तत्वोः स्थितरूपत्वाल्लङ्घनस्य स्थितात्मता। बस्न यत्रोत्थमप्युच्चैलङ्घनं हि गरुत्मति ॥ श्रूयते तेन मानत्वं नापमानस्य युक्तिमत् । न चागमविधिः कश्चिनिषेधाय वर्तते । तन्नास्य बाधकं किञ्चित् साधकं प्रतिपादितम् । धर्माधर्मज्ञतामात्रात् सिद्ध स्मत्समीहितमम् । यदुक्तं तदसन्माननिष्ठानेच्छानुवर्तिनी। नहि प्रमाणं वस्तुनि प्रवर्तमान विभाषया प्रवर्तते, तेन । समस्तवस्तुविस्तारि सर्वज्ञाज्ञानमक्रमात प्रति यज्जगतः कात्स्य॑ किमन्यत्परिवर्जयेत् । धर्माधी तयोः कार्य वेत्ति नाइसकलार्थवित् ।
तदक्तम् । जो एगं जाण इसा सवं जाणा । यथा हि सकलकर्मकारणं सर्वप्राणिकर्माणि तत्कार्य नरकादि तत्कारणकार्यपरम्परायाः परमागवन्तपरिज्ञाने कथं न सर्वज्ञता ? ।' तस्मादावरणविगभादनन्तवस्तुज्ञानम् न च वस्तुपरिज्ञानपरिसमप्तिः । यथा हि वयमनाद्यनन्तरूपतां विकल्पविज्ञानेन रात्रिन्दिवादीनां बुद्ध्यामहे । न च तत्परिसमाप्तिः, तथा भगवतोऽपि अनाद्यनन्तरूपतया साक्षात्कुर्वतो न विरोधः । अकारणाधीनतया विनाश्यादनप्रसङ्गः । अत एवाऽपराधीनतयाऽनियतविषया। न चातीतानागतस्य वस्तुन इदानीमस. स्वेनासविषयं तदिति वाच्यम् । तत्कालालिङ्गितत्वेन तस्य सत्वात्। तदाऽपि हि यदि तद्वस्तु न भवेत्तदा तद्विषयं न स्यात् । अन्यथा चोदनाबुद्धिरपि कथं भूतभवद्भविष्यद्वस्तुविषयिणी सत्ता ऽभ्युपेयते ? । तदुक्तम् ।