________________
હ્રદ
प्रत्यक्षपरिच्छेदः ।
प्रयाणदूरदर्शी चेदेतद्ग्रह्यानुपास्महे ॥ धर्मज्ञत्वनिषेधस्तु केवलेाऽनोऽपयुज्यते । भर्वमन्यद्विजानस्तु पुरुषः केन बाधितः ॥ सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् । केवलागमगस्यत्वं लप्स्यते पुण्यपापयेाः ॥ एतावतैवमीमांसापक्षे सिद्धेऽपि यः पुनः । सर्वज्ञवारणे यत्नः तैः कृतं मृतवारणम् ॥ येोऽपि चच्छिन्नमूलत्वाद्वर्मत्वे हते सति । सर्वान् पुरुषानाहुस्तैः कृतं तुषखण्डनम् ॥
सर्व सिद्धेऽपि न प्रतिज्ञातोऽर्थः सिद्ध्यति । तथाहियत्सत्यं नाम लोकेषु प्रत्यक्षं तद्धि कस्यचित् । प्रमेययवस्तुस्वादधिरूपरसादिवत् ॥ ज्ञातर्यत्राप्यनिर्दिष्टे पक्षे न्यूनत्वमापतेत् । यदि बुद्धातिरिक्तोऽन्यः कश्चित् सर्वज्ञतां गतः ॥ बुद्धवाक्यमाणत्वे तज्ज्ञानं कोपयुज्यते । सर्वज्ञो यस्त्वभिप्रतो न श्रुत्यार्थेन वाऽपि सः ॥ विज्ञायते यतः पक्षः साध्यत्वेनेप्सितेा भवेत् । यस्त्वीप्सिततमं पक्षं विशिष्यात् तस्य संज्ञया ॥ यावज्ज्ञेयं जगत्सर्वं प्रत्यक्षं सुगतस्य तत् । तैरेव हेतुभिः पूर्वैर्घटकुट्यादिरूपवत् ॥ तत्र नैवं विशिष्टोऽपि पूर्वस्मादेव भिद्यते । विशिष्टग्रहमात्रेण हेतेार्नैव विशिष्टता । शन्त्याहिता घटे हेतुर्दृष्टान्तानुग्रहेण वा ॥ पक्षान्तरेण तुल्यः स्यात्तदा कास्य विशिष्टता । सत्वात् प्रमेयमित्येतद्यतेऽन्येष्वपि वर्त्तते ॥