________________
-
जैनवार्तिकवृत्तौ। जातिज्ञानापसंहारातत्रापि व्याप्तिरस्ति नः । अतश्च व्यक्तिमेदानामनभिज्ञापि यो नरः ॥ सर्वजत्वफले प्राप्त मर्वज्ञत्वं न वाञ्छते। जरायुजाण्डोद्धदसंस्वेदजचतुर्विधे ॥ भूतग्रामेऽल्पाकोsपि सर्वज्ञफलमश्नुते । पृथिव्यादिमहाभूतसंक्षेपज्ञश्च यो नरः ॥ सविस्तरानभिज्ञोऽपि सर्वज्ञान विशिष्यते । भूमेर्य एकदेशज्ञो भूमिकायेषु वर्तते ॥ सप्तद्वीपमहीज्ञानं क नु तस्योपयुज्यते।। तथाऽल्पेनैव तायेन सिद्ध तायप्रयोजनम् ॥ तायान्तराण्य विज्ञाय नाजदेोषेण युज्यते। वहश्चामन्तभेदस्य ज्ञातस्योपासनादिभिः । पञ्चभिःकृतकार्यत्वादस्याज्ञानमदूषणम् ॥ शरीरान्तर्गतस्यैव वायोः प्राणादिपञ्चके । जाते शेषानभिज्ञत्वं नोपालम्भाय जायते । व्यानश्चपृथुन: पारमज्ञात्वाप्येकदेशवित् ॥ .. न च व्योमानभिज्ञत्वव्यपदेशेन दुष्यति । धर्मकीर्तिनाप्युक्तम् ।
ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये। प्रोपदेशकरणात् विप्रलभनशङ्किभिः ॥ तस्मादनुष्ठेयगतं जानमस्य सम्यक् विधार्यताम् । कोटसंख्यापरिज्ञानं तस्य नक्कोपयुद्यते ॥ हेयोपादेयतत्वस्य साभ्युपायस्य वेदकः। . यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥ दुरं पश्यन्तु वामा वा तत्वमिष्टं तु पश्यतु ।