________________
प्रत्यक्षपरिच्छेदः। वस्तुसत्ताधबोधार्थं तत्रामावप्रमाणता । तथापमानवाधिता तथाहिनरान् दृष्ट्वा त्वसर्वज्ञान् सर्वानेवाधुनातनान् ॥ तत्सादृश्योपमानेन तस्यासर्वसाधनमिति ॥
तदेवमनुमानाभावप्रमाणापमानबाधितेयं प्रतिक्षेति । भवतु वा तथापि निष्कला तथापि समस्तावयवव्यक्तिविस्तर. ज्ञानसाधनं काकदन्तपरीक्षावतिक्रयमाणमनर्थकम् । यथा चक्षुषा सर्वभावान् वेत्तीति फलं सर्वदर्शित्वप्रतिज्ञाप्यफला । तथा ।
स्वधर्माधर्ममात्रसाधनप्रतिषेधतः । तत्प्रणीतागमग्राह्य हेयत्वे हि प्रसिद्वितः ॥ कुत्र सर्वजगत्सूक्ष्मभेदज्ञत्वप्रसाधने । अस्थाने क्लिश्यते लोकः संरम्भाद्ग्रन्थवादयोः ॥ एतच्च फलवज्ञानं यावद्धर्मादिगोचरे । न तु वृक्षादिभिआतैरस्ति किञ्चित्प्रयोजनम् । क्रत्वर्थाः पुरुषार्थाश्च यावन्तः खदिरादयः ॥ सर्ववृक्षज्ञता तावत्तावत्स्वेव समाप्यते । लतासामगुडूच्याद्याः काश्चिदुर्मार्थ हेतवः ।। सिद्धान्त ज्ञानमात्रेण लतासर्वज्ञतापि नः । व्रीहिश्यामाकनीवारग्राम्यारण्यौषधीरपि ॥ ज्ञात्वा भवति सर्वज्ञो नानर्थकशतान्यपि । तथा कतिपयेष्वेव यज्ञगेषु तृणेष्वपि ॥ दर्मादिषु च बुद्धषु तृणसर्वज्ञतेष्यते । तृणीषधिलतावक्षजातयोऽन्याः सहस्रशः ॥ विविक्ता नोपयुज्यन्ते सदज्ञानेन नाज्ञता। यत्रापि चोपयुज्यन्ते व्यक्तयोर्जतिलक्षिताः ॥