________________
जैनवार्तिकवृत्तौ ।
तमेष विदित्वातिमृत्युमेति नान्यः पन्या विद्यतेऽयनायेति, तथा विश्वतश्चक्षुरुत विश्वता मुखे। विश्वतो बाहुरुत विश्वस्पात् । सम्बाहुभ्यां धमतिसम्पत्रैर्द्यावाभूमी जनयन् देव एक प्रास्ते इत्यादेर्विद्यमानत्वादिति चेत् । न, स्तुतिमात्रस्वादेवेषां न प्रामाण्यमिति । तथाचाह
६३
न च मन्त्रार्थवादानां तात्पर्यमवकल्पते । न चार्थनाप्रधानैस्तैस्तदस्तित्वं विधीयते ॥ नचानुवदितुं शक्यं पूर्वमभ्यैरबोधितम् । अनादिरागसस्यार्थे न च सर्वज्ञ आदिमान् ॥ कृत्रिमेण त्वसत्येन स कथं प्रतिपद्यते । अथ तद्वचनेनैव सर्वज्ञोऽन्यैः प्रतीयते ॥ प्रकल्पेत कथं सिद्धिरन्येन्याश्रय हस्तयोः । सर्वज्ञोक्ततया वाच्यं सत्यं तेन तदस्तिता ॥ कथं तदुभयं सिद्धांत सिद्धमूलान्तरादृते । असर्वज्ञप्रणीतात्तु वचनान्मूलबर्जितात् ॥ सर्वज्ञमगच्छत्तः स्ववाक्यात् किं न ज्ञानते । सर्वसदृशं कञ्चित् यदि पश्येम संप्रति ॥ उपमानेन सर्वशं ज्ञानीयामस्तता क्यम् । उपदेशे हि बुद्ध्यादेः धर्माधर्मदिगोचरः ॥ अन्यथा मोपपद्येत सर्वज्ञो यदि नाभवत् । बुद्धादयो वेदशा तेषां चेदाद्यसंभवः ॥ उपदेशः कृतेाऽतस्तै यामाहादेव केवलात । येsपि मन्वादयः सिद्धाः प्रधानेन त्रयीविदः ॥ त्रयोविद्याश्रितग्रन्थास्ते वेदप्रभवाक्तयः । तदेवम् । प्रामाणपञ्चकं यत्र वस्तुरूपेण ज्ञायते ॥