________________
प्रत्यक्ष परिच्छेदः । स्यात् तच्छरीरे गृह्यमाणे चैतन्याग्रहणाद्विरुद्धधर्माध्यासेम ता दात्म्यम्। तर देहकार्य देहगुणो देहात्मक चैतन्यं किन्तु जन्मातरचैतन्योपादानमेव जन्मादिजन्य चैतन्य पर्यायं जीवद्रष्यमिति। अथ कथं परलोकशरीराच्छरीरान्तरसंचारः। बद्धादिशरीरावस्था. संचारवत् । अथैकोपादानभावेन तदेकत्वान्न शरीरान्तरम् । पश्वादिशरीरंतु नैवम् । तदपि स्वाग्निकशरीरसंचारदर्शनादनका. मितकम् । किंच शरीरान्तरे मनः संक्रान्तिः कथंच्चिद्गाहकत्वेनैव नान्यथातः। सा चेह पश्वादिशरीरेष्वप्युपलभ्यते। तत्कथं न शरी रान्तरसंचारोपलब्धिः । श्रथाग्राह्यतामात्र संचारे परशरीरवस्वशररक्षतावपि न व्याकुलतादयः स्युः । तदप्यसत् । परर. कादिदर्शनेऽपि केषाञ्चिद्व्याकुलतोपलब्धेरात्मशरीरक्षतावपि केषाञ्चिदभावात् । तदानेकजन्मपरम्परावासनादाादात्मी'यग्रहसद्भावे व्याकुलतादयः प्रवर्तन्तइति । अथ भवतु कार्याद. तीतपरलोकानुमान माविनस्तु कथ तदर्थावदनादिक्रियेष्यते ।। तदपि यत्किञ्चित् । सिद्धे हि कार्यकारणभावे यथा कार्यात कारणानुमानं तथाऽविकलकारणात्कार्यस्यापि इत्यनै कान्तिकत्वादिदूषणं नैव संभवति ।
कार्यकारण सद्भाच्चैतन्येनान्यचेतस इति । . एवं क्षणिकपर्यायपरिणामिनि संस्थिते ॥ गुणाः प्रकर्षमायान्ति कालेन सहकारिणा । इति निगदितमेतत् केवलज्ञान हेतुः कुशलमखिलबन्धे। ज्ञान चारित्रदृष्टिः । सकलमलविहीनं साधनं तस्य सिद्ध कथयितुमिदमन्यदार्तिकस्याह कर्ता ॥
अन्त्यसामग्नबद्धतुरित्यादि । हेतुः कारणकलापः । संपूर्ण त्यविकलः । सदेत्यवश्यमेव कार्यकारी ।
-