________________
-
जैनवार्तिकवृत्तौ। एव तेन कृतः स्पा मावस्ततापनाशात्स्वयमेवास्त इति किं स्थितिहेतुना । यदि च नाशहेतो नाशो यावनाशको मायाति तावत् स्वयमेवास्त इति किं स्थिहेतुना। श्रथ विमाशकात पूर्वस्थापकेन विनाशप्रतिबन्धः क्रियते । ननु सपि. विनाशप्रतिबन्धोऽन्यो विनाश्यात् । ततो विनाश्यस्य न किंधिदिति विनश्येत् । अथानन्यस्ताहि विनाश्यःस्थापकेन क्रियते न स्थितिः। अथ प्रतिक्षणविनश्वरः स्थापकादन्यथा भवति तस्य विनाशोग्हे. तुक इति स एव प्रतिक्षणाविनाशः स चान्यथास्थापका. दुत्पन्न इति करणमेव स्यान्त्र स्थापकः । श्रथ पततो धारणोपलब्धेः कथं न स्थापकः? । न पततो धारणं यस्य च धारणं न तस्य पतनम् । पतनापतगयोः परस्परविरोधात्। पूर्व पतनं पश्चादपतनमिति चेत् । तर्हि यस्य पतनं तस्य धारणम् । प्रत्यक्षेणैकत्वाप्रतिपत्तः । न ह्यकोग्वस्थानपतने कस्याप्युपलभ्यते । स ए. व पतनवतिष्ठत इति एकत्वाभिमानादवस्थातुः प्रतीतिरिति चेन्न । प्रत्यभिज्ञानस्याभिमानमात्रत्वात् । ततः प्रतिक्षणविनाशिना परपरादेशोत्पादवतामुपादानदेशोत्पत्तिराधारसमागमकतेति हेतुरेव विशिष्टावस्थाया प्राधार उच्यते । किंध गुरुणा द्रव्य. स्य पततः पातप्रतिबन्धात् स्थापकः स्यादपि निष्क्रियाणां तु गुणसामान्यकर्मणां किमाधारण । चैतन्य च सामान्यं गुणः कर्म वा । तच्च सर्वथा निष्क्रयमिति नाधारणास्य किंचित् । अतोनाधेयस्य चेतसा नाशे न विनाशः कियत्कालं तु सहस्थानमा. त्रकम् । अग्नि ताम्रद्रषत्ववदित्युक्तम् । तन्न कायाश्रितं चेतः । नापि कायात्मकम् । यतः परमाणुसंघातमात्रमेव शरीरम् । तत्तादात्म्ये प्रत्येकं सकलपरमाणुसंवेदनप्रसङ्गः स्यात्। न चावयव्येको विद्यते। तत्सद्भावेऽपि वा श्यामतादिवदन्येन चैतन्ये वेदनं स्यात् । अन्तः| स्प्रष्टव्यरूपत्वान्नेति चेत् । न, व्रणं स्पृशताग्न्यस्यापि तद्वदनावेदनं