________________
प्रत्यक्षपरिच्छेदः ।
पानानिवृत्तौ चेतन्यानिवृत्तिः स्यात् । यदि च प्राणापानकार्यं चैतन्यं तदा तयोर्नह्रासातिशये तस्यापि तौ स्याताम् । अवश्यं हि कारणे परिहीयमानेऽभिवर्द्धमाने वा कार्यस्य हानिरुपचयश्च स्यात् । अन्यथा तत्तस्य कार्यमेव न भवेत् । न चैवमत्र । न शरीरेन्द्रियप्राणापान कार्य चित्तम् । नापि देहाश्रितम् । श्राश्रयाश्रयिभावप्रतिषेधात् । तथाहि असतस्तावत् खरविखायस्येव नाश्रयः केवलमसत्कारणादुत्पत्ति मेवे इतेऽतो सतः कारणमेव स्यान्नाश्रयः । सताऽपि सर्वनिराससत्वान्न कश्चिदाश्रयः । प्रथ सतः स्थितिकरणे वाश्रयो न । स्थितेः स्थातुव्यतिरेकेण तत्करणे स एव कृतः स्यात् । न च सतः करणम् । उत्पन्नस्य पुनरुत्पादायोगात् । अथोत्पन्नस्यापि किञ्चिदुत्पन्नमस्ति तत्कारणादाश्रयः सर्वात्मनोत्पादे कारणमुच्यते कस्यचित्तु धर्मस्योत्पादे आधारः । नच स्थितिरव्यतिरिक्तस्वरूपा । पततेाऽपि स्वत्यभावे स्वरूपसद्भावात् यदि पुनरव्यतिरिक्ता स्थितिः स्यात् स्थितेरव्यतिरिक्तः सभवेत् ततः सर्वदा स्थितिरेव भवेत् तेन स्वरूपे सति निवर्तमानविरुद्धर्माध्यासात् ततेाव्यतिरिक्ताऽसी । तद्व्यसत् । व्यतिरिक्ते हि सति तद्ध तुरेवासौ न तस्याधारः । तस्य स्थितिकरणात्तदाधार इति चेत् । किमसावुत्पन्ना सती स्याप्या भवत्यन्यथा वा ? | अनुत्पन्नाऽसत्वान्न । तस्य उत्पन्नाप्यन्यस्मात् कथम् । भावस्य तादात्म्यतदुत्पत्तिसंबन्धाभावात् । अथ तत एवात्पद्यते नान्यतः । तथा सति तत्कार्या स्यान्नाश्रयकार्या । तत्र घोक्तदूषणम् । तथाहिस्वाप्येन स्थितिः क्रियते नाश्रयेण । अथ स्थितेः स्थितिः क्रियते आश्रयेण तर्झनवस्था स्यात् । यदि चाश्रायो देहस्तदा यस्य स्थितिकारणमस्ति तस्य न विनाशः स्यात् । अथ स्थापके सत्यपि नाशहेतेार्नाशः । न नाशोनामान्य एव भावात् । तद्व्यतिरेके च नाश
1
५८