SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ जैनवार्तिकवृत्ती । ५७ यथाग्नेर्विकारमासाद्य घटादिवस्तु तत एव नोत्पद्यते तथे न्द्रियाणीति वाच्यम् । यतः घटादिरन्यथा दृष्टस्तता न तत एव सः । नान्यथा तु पुनर्दृष्टमिन्द्रियं तद्विकारतः ॥ किं च चक्षुरादिभ्यः किमेकैकशेा मनोविज्ञानमुत्पद्यते, समस्तेभ्येा वा?। प्रथमपक्षे नियतविषय मनेा विज्ञानं स्यात् । रूपादिदर्शनादिवत् । द्वितीये तु मान्धबधिरादेर्मनोविज्ञानं स्यात् । न हि बीजादिभ्यः समस्तेभ्यः समुत्पद्यमानोऽङकुर स्तदेकापाये उत्पद्यते । तन्न चक्षुरादिकार्यता । नापि प्राणापानकार्यता । प्राणापानौ हि मनोविज्ञानान्वयव्यतिरेकानुविधायिने । न मनोविज्ञानं तदन्वयव्यतिरेकानुविधायि। अन्यथा मूलाविच्छेदे चैतन्यं न स्यात् । तत्कार्यतामन्तरेण मनोज्ञानवश्यता च तयेार्न स्यात् । न खल्वन्याधीनमन्येन वशयितुशक्यम् । अथान्यत उत्पन्नोऽप्यन्येन नियम्यते । यथा स्वामिना भृत्यः । तदुप्यसत् । भृत्यस्यान्यत उत्पत्तिश्यते न पुनस्तयेाः । न वित्तमन्तरेणास्ति तयोरुत्पत्तिरन्यतः ॥ अथ स्वापावस्यायां प्राणापानौ चित्तमन्तरेणापि दृश्येते तत्कथं तत्कायैा ? । तन्न । निद्राभिभूतस्य तदापि भावात् । शरीरचेष्टा यावत्यस्ताः स्वार्थाः चित्तसंस्कृताः । सुप्तस्य दीर्घ स्वादिनिश्वासाः पूर्वचित्ततः ॥ न हि चैतन्यमन्तरेण प्रेरणाकर्षणे भवतः । न च प्रेरणाकर्षणे एव चैतन्यात् प्राणापानाविति । तत्स्वरूपव्यतिरेकेण प्रेरणाकर्षणयोरभावात् । श्रथ स्थिरो वायुः प्राणापानयेाहेतुस्ततश्चेतना । तदप्यसत् । मृतस्यापि स्थिरो वायुरस्तीति प्राणा ८
SR No.022458
Book TitleJain Tark Vartikam
Original Sutra AuthorN/A
AuthorVitthal Shastri
PublisherBhagavati Prasad
Publication Year1917
Total Pages170
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy