________________
५४ . प्रत्यक्ष परिच्छेदः । तेषां कथं मातपितृचैतन्यपूर्वकत्वम् । किञ्च कस्यचिन्मरणभावात्सकलमातापितृस्वभावानुवर्तनं स्यात् । पारलौकिकस्तु मरणगर्मजन्मदुःखममुहातव्याकुलत्वन कस्य चिदेव दृष्टेः । कस्य चि. जातिस्मरणमुपलभ्यते। अपूर्वा यत्तस्य तु सैवास्थि तिर्न दुःखम् ।
सदैव तत्रोत्पन्नस्य न दुःखं विषकोटधत्। . पग्लोकिनस्तु तद्दुःखमनाद्यभ्याससेवनात् ॥ अथ देहात्मिका देहा कार्या देहस्य न गुणा मतिः। मत्तत्रयमिहाश्रित्य न परलोकस्य सम्भवः ॥
तथाहि-न धूमो धूमान्तरादागच्छति नापि धूमध्वजान्तरं प्रयाति । नापि धूमध्वजे विरहे भवति । चित्रं वा न कुड्यान्तरादागच्छति कुख्यान्तरं या संक्रामति, कुड्यविरहितं धावतिष्ठते। मदशक्तिकषायादेः सशर्करादपूर्वी जायमाना मद्यान्तरमवलम्बते, मद्यान्तराद्वागच्छति, तद्विगमे चावमिष्यते, तदमत्। महाभाधिनस्तद्वस्कश्चिदेव महाभूतपरिणतिविशेषश्चैतन्य हेतुः। तदप्यसत्।
यता न कश्चित् पृष्ठयादेरंशी यत्र न जन्तवः । संस्वेदजाद्या जायन्ते सर्वजीवात्मकं ततः ॥
प्राय यदि न महाभूनकार्याः प्राणिनः कथं कष्ठाद्यन्वयिमी प्राणिणातिरूपलभ्यते । तत्र यतः समानजातीयं सर्व तद्पप्राणिमयं स्यात् । न चैवम् । तथाहि-परिताप्य स्थापितेऽम्मासि किल तद्रूपप्राणिगणोत्पत्तिः स्यात्। कुतो वर्णसंस्थानवैलक्षण्यम् । रक्तशिरसः पीतकायादयोऽपरे जलादिप्राणिना दृष्टाः स आकारः कुतो मत् । तद्रूपबीजात् कमलादिभेदः किं दृष्ट इष्टो पा नि. यतः । कदाचिन्न प्राणिभेदी नियतोऽस्ति बोजात् सन्त्वत्र कर्माणि नियामकानि ॥ न च चैतन्यादुत्पद्यमानमुपलब्धमन्यथा शरीरा