________________
जैनवार्तिक वृत्ती। स्थाया रागाद्यासक्तिचित्त तदभ्यासपूर्वम् । अस्ति च जन्मादा. बाहाराद्यासक्तिचैतन्यमिति कार्य हेतुः । तत्क्षगजातस्यापि स्तन. पानशरीररक्षाद्युपलब्धे सिद्धता हेतोः । सपक्षे सत्वाम विरुद्वता, कार्यकारणभावसिद्धेर्नानकान्तिकता। अनुगमस्य भावा. त सदास्तित्वमात्मन इति । अथ कार्यकारणभावाव्यवस्थामात्कथमेतत् । तथाहि
धूमे। धूमान्तरोत्यत्रो न धूमादेव सर्वथा । शालूकादपि शालूकः कथं भवति गोमयात् ॥
तथा
चित्रं चित्रकराज्जातमेतत् त्रिष्यपि किं तथा । तथाभ्यासाद्विशेषो यः सोन्यथापि भविष्यति। तदसत्।
धूमा धूमाद्यथाभूतः सेोऽन्यथापि न जायते । . अभ्यासातु विशेषो यः स जन्मादौ तथा स्थितः ॥
ग्रामान्तराभ्यासबज्जन्मान्तराभ्यासानुपलब्धेर्न तत्कारणं चेतन्यं किंतु तदैव तस्योपलब्धेः । तस्मात्तदेव तदिति चेत । एतगोताख्यानं काश्चीतः फिलान्येन सृष्टः । कथमसंभवः ।।
मातुदीर्घविषाणस्य वृषभस्य कथं स्थिते । .. स प्राह कुक्षेर्जायन्ते न मातुर्महिषादमी ॥
हहागतानामेवैषा शून्येन क्रयविक्रयमात्रकम् । न च मातृपितृचैतन्यत्वेन चेतसः सिद्धसाध्यता वाच्या । अन्यथा सकलस्य व्यापित्वादिविशेषस्याप्यनुवर्तनं स्यात् । न चहान्यसंस्कारोऽन्यस्य दृष्टः । उपाध्यायसंस्कारानुवतन मुंपलभ्यत इति चेत् । न, स्वसन्तानस्य पूर्वविज्ञानस्यैवाभिरुचिविशेषितस्य भावात्। अन्यथा दृष्टेः । ये चाचेतनात् काष्टादेरुपजायन्ते
-