________________
जैनवार्तिकवृत्तौ। अस्यादोष ति चेत् । न, तत्रापि योग्यतापेक्षणात । अयस्का. न्तायस्कर्षवत् व्यापित्वाभ्युपगमेनानुपूर्वी स्यात् । तथा हिमा देशकृता वा स्यात् यथा पिपोलकादीनां पङ्क्तो, कालकृता वा स्यात् यथा बोजाङ्करादीनाम् । तत्र न तावद्देशकता। अन्यो. न्यदेशपरिहारेण वृत्तिहि देशपौर्वापर्य तत्सर्वस्य सर्वत्र तुल्यदे. शत्वाद्वर्णेषु न संभवति । पातातपादिवदात्मादिवच्च । नापि कालकता । यतः कालपौर्वापर्य यदैको नास्ति तदाऽन्यस्यसद्भावः स्यात् । तच्च नित्येषु न संभवति । सर्वदाभावात् । न चान्या गतिरस्ति । तत्कथं वर्णानुपूर्वीबाध्यं यदपौरुषेयं परिकल्प्येत । बाध्यदुषणेनैव च पदस्यापि निरस्तत्वातं न तदृषणं पृथुगुच्यते । तत्र किञ्चिद्वैदिको पौरुषेयनिबन्धनः प्रामाण्यलक्षणो विशेषो वेदे स्यात् यत्सद्भाबादसिद्धता हेतो - वेत् । नापि विरुद्धता । हेतोः सपक्षे सद्धावात् । नाप्यनैकान्तिकता। जगतोऽहेतुकताप्रपङ्गात् । तथा हि-कार्यभेदाभेदी कारणभेदाभेदपूर्वको । अन्यस्य भेदहतोरभावात् । तदुक्तम्अयमेव हि भेदो भेदहेतुको वा यदुत विरुद्धधर्माध्यासः कारगभेदश्च तौ चेन्न भेदको विश्वस्य वैश्वरूप्यं हीयते । तत्र यदि लोकिकवेदिकयोभित्रकारणता स्यात्तदाभेदोऽहेतुक: स्यात् । कारणस्य हेत्वभेदस्यामावात् । तथा विकलेऽपि कारणभेदे यदि कार्यभेदो न भवेत् सोऽप्यहेतुकः स्यात् । न च भेदाभेदी विहायापरं जगदस्तीत्यहेतुकं सकलं स्यात् । न चाहे तुकं नित्यम् । सकलस्वादिप्रसङ्गात् । तन्नानैकान्तिकतापि । तस्मात् स्थितमेतन्नापौरुषेयो वेद इति तस तबिन्धनं वेदस्य प्रामाण्यमिति स्थितम् । नन्वीश्वरस्य सर्वकर्तृत्वात सर्वजत्वे सिद्ध कथं न प्रामाण्यम् । तथाहि-भूभृद्धरादिकं बुद्धिमत्कार.
प
OLI