________________
जैनवार्तिकवृत्ती।
कारकाम्तरमपेक्ष्य जनयति । मनु कारकान्तरेण किं तस्य जन. कत्वं क्रियते अध ज्ञाप्यते । तद्यदि क्रियते। सुस्थितं नित्यत्वम् । अथ ज्ञाप्यते सिद्ध तिहि जनकत्वम्। कारकान्तरामावेऽपि भवतु को दोष इति चेत्कायोत्पत्तिप्रसङ्गः । अथ कारकत्वेऽपि कार्य जनयेत् । अहो राजाज्ञा गरीयसी देवानां प्रियस्य इतोऽपि न विद्यते सामान्यम् । तदुपलम्भकप्रमाणाभावात् । नन्वस्ति प्रमा: णमनयाः सादृश्यम् । एषां सारूप्यं तेन सदृशोऽयमसौ वाऽनेन सदृश इत्यादिज्ञानमप्रतिपनसामान्यस्य नोपपद्यते । प्रस्तीद विज्ञानं बाधकधिक लजातिज्ञापकम् । तदेतद्युक्तम् ।यतः किं तेन निमित्तभूतेनैव विज्ञानमुत्पाद्यते कम्मंतापनेन वा ? । तद्यदि निमित्तभूतेनोत्पाद्यते तदाता एव व्यक्तयः समानाकारपरिणता. स्तम्निमित्तं सन्तु अलं परपरिकल्पितेन सामान्येनं। अथ कर्मता. पन्नेनोत्पाद्यते तेनैवावभाति । न ह्यशेषव्यक्तिसाधारणं सामा. न्यरूपमध्यक्षमीक्षामहे । तत्र किं चित्सामान्यं यत्राश्रितः सबन्धः स्यात् । किं वापयेण नित्यस्य सतः संबन्धस्य उप. चारः क्रियते न वा?। प्रकरणे साकल्येन सकलं जगदापयेत् । करणे वा स तस्माद्भिन्नः स्यादभिन्नो वा ? । अभेदे नित्यताहानिप्रसङ्गात् । भेदे च न किंचित्संबन्धस्य कृतं स्यात् । तत्संब. मधुपकारकरणकल्पनायामनवस्था गगनतलाबल म्बिनी धूमललितिके प्रसरती टुर्निवारा स्यात्। तन्न कश्चिन्नित्यः सम्बन्धः । न च क्रमयोगपद्याभ्यामर्थक्रियाविरोधेन सम्बन्धः सामान्यमन्यद्वा वस्तु नित्यं समस्तेऽपि जगत्यस्ति । किं चासो सम्बन्धः प्रतीतो वार्थ प्रकाशयेदप्रतीतो का? । अप्रतीतस्य सन्निधिमा. श्रेणार्थप्रकाशने सर्वदा सर्वप्रतिपत्तणां प्रकाशयेत् । प्रतीतप्रचेत् केन प्रतीतः । किं प्रत्यक्षेण, माहास्विदनुमानेन ? । न