________________
प्रत्यक्षपरिच्छेदः । सामान्यमयं विशेष इति व्यवस्थाप्यते यदि तेनात्मना भेदस्तदाद एव अथाभेदस्तदाऽभेद एव । अथ तत्रापि भेदै तर्यि नवस्था । नचेदृशं वस्तुशतसारवमध्यक्षमीक्षामहे । तन्न साभ्यो भिमानिनम् । तासां नानात्वे तस्यापि नानात्वोपपत्तेः । तदेकत्वे तासामेकतामसङ्गादिति । नाभिन्नमपि भिन्नम् । असामान्यरूपतापत्तेः । दण्डादिवत् । अनेकसंबन्धासामान्यदिति चेत्। न, संख्याकार्यद्रव्यादेरपि सामान्यरूपताप्रसङ्गात् । प्रधानुस्यूताकारानुभूयमानं सामान्यं नेतरदिति चेत् । ननु क्रिमात्मरूपामुस्यूतं पररूपानुस्यूतं था? । न तावदात्मरूपानुस्यूतम् । प्रारमन्यनुगमाभावात् । श्रथ पररूपानु स्यूतम् । पररूपानुस्यूतेन किं तादात्म्यं तत्समधायो का?' तद्यदि तादात्म्यं पूर्ववद्दोषप्रसङ्गः । अथ समवायः । तदयुक्तम् । तस्याभावात् । अस्तु वा स सर्वव्यापि गोस्वं यथा गोपिण्डे. टसमर्षयति तथा कई दिपिडेरपि संबन्धयेत् । अवान्तरसंबन्धकल्पनायां अनवस्था । किं च. सामान्य व्यक्तिषु वर्तमानमेकदेशेन वा वर्ततअनेकदेशेन वा ? । नैकदेशेन । निष्प्रदेशत्वात्सा. मान्यस्य । नापि सामस्त्येन । एकस्यामेव व्यक्ती परिसमाप्तिप्रसङ्गात्। किं च केयं वत्तिराधेयता वा स्यात् व्यक्तिपूर्वी व भवेत् । नाधेयता। मिष्क्रियत्वात्। सामान्यस्य गुरुणा हि द्रव्यस्य पततः स्थिरिकरणादाधारः स्यात् । न चैतत् स्थिते भिन्नाभि. नकरणेन सामान्ये युज्यते । नापि व्यक्तिः। नित्यस्य व्यक्तोरया. गात् । तथाहि-व्यक्तिरावरणापगमे सति ज्ञानजनकत्वमुच्यते । न च नित्यस्य ज्ञानजनकत्वं विद्यते । यदेव हि शामजनकावस्थायां सामान्यरूपं तदेव ठयक्तावस्थायामपीति मागेव जनयेत् । यद्वा अध्यक्तावस्थायामप्येकरूपत्वाज जनयेत् । अथ
-
-