________________
२८
प्रत्यक्षपरिच्छेदः ।
वा पौरुषेयत्वेनाभिमतानि बाध्यानि पौरुषेयैर्वाव्यैरिति । न तावदयमसिद्धो हेतुः । यतः सविशेषो दृश्यो वा स्याददृश्ये वा । दर्शनाभावान्न दृश्यदुर्भणत्वादिः । दृश्यतइति चेत् । न, जैनेन्द्रघृषितेत्यादिष्वपि पैौरुषेयेषु तस्य भावात् । विषापनयनादिका विशेष इति चेत् । न तस्य शाबरेष्वपि मन्त्रेषु भावात् । न च सत्यतपः प्रभावतां सङ्केतमात्रतयाऽस्य मन्त्रस्थमुपलभ्यते । ते हि कांचन देवतां समाराध्य यामिनामस्मद्ग्रथितां वर्णपदक्रमरचनामध्येष्यते । तस्मै स्ववेदं फलं दातव्यमिति सङ्केतयन्ति । अन्यथा नित्यान्मन्त्रात् सर्वदा फलदा न प्रवृत्तिः स्यात् । यता हि भावशक्तेः फलोत्पत्तिः साऽविकलेति न फलवैकल्यं कदाचिदपि स्यात् । न हि कारण साकल्ये कार्यवैकल्यं युक्तिमत् । तस्याकारणत्वप्रसङ्गात् । अथ न केवलान्नित्यमन्त्रादिष्टफलसिद्धिः, किं तर्हि विधानादिसहकारिकारणसव्यपेक्षादिति । ननु यदि मन्त्राः विधानादन्यतो वा क्वचित् स्वभावातिशयमासादयेयुस्तदापेक्षां सहकारि कारणम् । न चासादयन्ति । तथाहि- -स सह कारिणा विधीयमाने। विशेषस्तेभ्यो व्यतिरिक्तो वाऽव्य तिरिक्तो वा स्यात् ? । व्यतिरेके ते स्वरूपेण निरतिशया एव । विधानादिसहकारिसन्निधानेऽपि पूर्वकालवन्न फलं दद्युः । भव्यतिरेके तेषामनित्यताप्रसक्तेः । तथा च पैौरुषेयत्वमेव स्यात् । किञ्च यदि भावशक्त्यैव संस्कार्या मन्त्राः फलं प्रयच्छन्ति तदा तदा यजमानस्येवान्यस्यापि सिद्धिविधायिनेा भवेयुः । नान्यं प्रत्यविचलितरूप भावोऽतद्भावो भवति । तेन तस्य कस्यचित् स्वभावस्यानपाकेरणात् । श्रन्येन वा कस्यचित् स्वभावस्यानुतकर्षणात् । तथा पौरुषेया मन्त्राः । प्रवेदिकानां च जैनादियन्त्रकल्पानां पुरुषप्रणीतानां दर्शनात् । तत्राप्यपैारुषेयत्वकरूप