________________
-
जैनकार्तिकवृत्ती। मरुमरीचिकारूपेणेदानी चकास्ति । जलात पूर्व जलरूपेण प्रतिभातमासीदिति । एतच्च अणिकत्वनिराकरणप्रस्तोवे प्रतिपादयिभ्यामः । तथा तुच्छरूपनमभ्युपगच्छतां सदसदात्मकवस्तुवाहिनां न तत्पक्षशेषः क्षतिमावहतीति । ततो वस्तुग्राहि प्रमाणं प्रमाणान्तरशून्यमात्मानं वेदयमानं स्वग्राह्यमारोपिता. सदाकारविविक्तं च प्रतिपद्यमानं ज्ञानं शेयामाबव्यवहारं प्रवर्त. यतीति कथं न बाधकामावनिश्चय इति । तस्मात् स्थितमबाधितं प्रमाणमिति । ततः साधक्तं बाधविवर्जितमिति । सूक्तमिति । प्रमाणोपपन्न लक्ष्यते व्याप्यते प्रामाण्यं तादात्म्यादनेनेति लक्षणमिति । अत एव सद्भावस्तद्धाबे तदभावे वाभाव इति दर्शयितुमाह-वेदे स्वरोदय इति । ..
वेदे स्वरादयो नैव प्रमाणं बाधसंभवात् । प्रमाणं बाधवैकल्यादहंस्तत्वार्थदर्शिनः ॥
वेदेस्वरश्चादिग्रहणात्प्रधानान्तरज्ञानपरिग्रहस्तेन प्रमाणं ध्यापकामावातदभावश्च विरोधिसन्निधेस्तदेवाह-बाधसंभवादिति । बाधनं बाधस्तदसंभवात् । बाधाबायोः परस्पर. विरोधात् । निमित्तेन निमित्तिनं दर्शयति-प्रमाणमित्यादि । शक्रादिभ्यः पूजामहंतीति यद्वा रागादीनरीन हन्तीत्यहम्। तस्वं जीवादयः मप्त पदार्थास्तान वेदयतीति नन्द्यादिभ्यो युः। तत्व. वेदनेन हि हेते मिद्धिं दर्शयति । यत एव तत्ववेदनाऽत एवं तज्जोयेस्तत्वारोपनिरास इति । एतच्च सर्वज्ञसिद्बा दर्शयिष्यते । चोदनायास्तावदपैौरुषेयत्वनिबन्धनं प्रामाण्यं समूलमुन्मूल. यितुमाह । वचस इत्यादि । अनेन हि प्रयोगार्थो दर्शितः। प्रयोगस्तु यद्येनासंभवद्विशेषस्वरूपं तत् तेन सकलमेव समान. हेतुकः । यथासंभवद्विशेषः परः पटान्तरेणासंभवद्विशेषाणि