________________
१५७
जैनकार्तिकृत्तौ। द्गरादिमहकारिकारणं प्राप्य कपालानुत्पादयति । तदुत्पत्ती च विजातीयसन्तानोत्पादेनासिता घट इति जनस्यानिधान इति । अथ प्रसज्यरूपमभावं करोति तदपि नास्ति । नीरूपस्य कर्तु मशक्यत्वात्करणे वा भावरू पतष स्यात् । यती भवतीति भावो ऽभिधीयते । नान्यद्धावस्यापि लक्षणम् । अथ आवो भावरूपतया भवति । अभावामावरूपतयेति । विचित्ररूपा हि पदार्था भवन्ति । न हि नलं पीतरूपतया भवति । तदप्यमत। यतः केनचिद्र पेणेोन्मज्न नं हि भवनमभिधीयते सापा. ख्यारहितस्य नोरूपत्वान्न कस्यचिद्र पस्य करण मित्ति कथं तत्र हेतुव्यापारः फलवानिति । तस्मादभावं करोति भावं न करोतीति क्रियाप्रतिषेधमात्रं स्यात् । तस्माद्विनाशस्याहेतुकत्वादुदयानन्तरध्वंसे कुतोऽनुगतस्य रूपस्य सद्भावो येन त्रै रूध्ये वस्तुनः स्यादिति । अपि धैकरूपत्वे वस्तुनः प्रथमे क्षणे यद् तदेव यदि द्वितीयादिष्वपि तदोत्पत्तिरूपत्वात प्रथमक्षणस्येव सर्वेषामुत्पत्तिरूपता स्यादिति । प्रतिक्षणमुत्पादे न कस्य चितिस्थतिरिति । अय प्रथमक्षणे उत्पत्तिद्धितीयादिषु स्थितिरिति सदोत्पत्तिस्थितिमद्भयां न भेद इति तयोरपि भेदइत्यादिना क्षणिकवस्तुनः सिद्ध कुतो द्रव्यस्य संभव इति । अत्र वदन्ति । यद्य हेतुकत्वं नाशस्य तदा नित्यं सत्वमप्तत्त्वं वा स्यात् । तत्र गदि घटाभावस्य सत्त्वं तदा हेतोदेशकालनियमानावाज्ज गति घटस्य नामापि न स्यात । अथासत्त्वं तदा घटस्य नित्यत्वं व्यापित्वं वा प्रसज्येत । अथ न घटस्त दाभावस्याभेदः तर्हि कथं मावस्याहेतुकत्वम् । अन्यथा घटस्थाप्य हेतुकता स्यात् । अथ घट हेतोरन्यो न मुद्गरादिहेतुरित्यहेतुकतोच्यते। यद्येवं प्रथमेऽपि क्षणे न घटस्य सस्वं स्यात् ।