________________
१५४
शब्दपरिच्छेदः । वारकत्वेन कदाचिदुरलम्भः स्यात् । अथ सत्तदा कथं तस्य विगमः । न हि भवसंमतेन विनश्यति । तिरोभावे विनाश इति चेत्। कोऽयं निभावः । किं स्वरूपविनाश :, पर्यायविनाशो, वा किं वावरणयोगो, विज्ञानानुत्पादकत्वं, चेति ? । तत्र न तावत्स्वरूपपर्यायविनाशः । अनभ्युपगमात् । नाप्यावरणयोगः । अविचलितरूपस्यावरणयोगात्, अकिंचिकुर्वाणस्यावरणत्वासंभवात् । अन्यथा जगतोऽपि स्यात् । करणे वा नित्यताहाने: विज्ञानानुत्पादकत्वमस्य युक्तम् । येन हि स्वरूपेण ज्ञानमकार्षीत्तस्य विद्यमानत्वात्महकारिणोः प्रमाणसंधादि । तट्वि प्रत्यक्षं वो स्यादनुमानं वा? । न तावत् प्रत्यक्षम् । परोक्षवेना. भ्युपगमात् । यस्याप्यभ्युपगम: सोऽपि न युक्तवादी। यतस्तत्प्रप्रत्येक्षेनेन्द्रिय जन्यमभ्युपगभ्यते किं त्वात्मनः संनिकर्षजम् । नचकूटस्थस्य प्रागिव मनसा संयोगः संभवति। तस्य हि यदसंयुक्तरूपं तत्संयोगकाले किमस्ति, कि वा नास्ति ? । यद्यस्ति तदा न सा संयुज्यते । तथा हि-। यदसंयुक्तरूपं तन्न मनसा संयुज्यते । यथा मुक्तात्मादिअसंयुक्तरूपश्चात्मपूर्वावस्थाया. मिति स्वभावविरुद्धोपलब्धिरिति संयुक्तासंयुक्तस्वरूपयाः परस्परपरिहारेणावस्थानात् । अथैकरूपस्य तस्य रूपदयं तेन नासंयुक्तस्वरूपः । सर्वदैव तद्रूपत्वात् नैतदस्ति । यतो नैकरूपस्य मंसरणं स्यात् । तथाहि-यदि कर्तृस्वरूपस्तदा न भोक्तस्वरूपोऽथ भक्तिस्वरूपस्तदा न कर्तृ स्वरूपो यदि बंधस्वभा. वो न, न मुक्तस्वभावस्तदा न बंधस्तभाव इति किंचिदिगादि भिरपि मगम: संघोगः किं न संभवति । अमात्मरूपत्वादिति चेत् । न, सर्वव्यापित्वे कुट स्य नित्यत्वे जडत्वे च मति कथमयं विभोगोऽयमात्माऽनात्मा चेति । यस्य मनःसंबंधः स आत्मा