________________
जैनवार्तिकवृत्तौ ।
क्षतया क्वचिदपि पारतन्त्र्यासंभवात् । नाध्वसतः । सर्वोपाख्याविरहतया तस्य । क्वचिदप्याश्रि त्वानु उपत्तेः । न हि शशाविषागया। दिः क्वचिदप्याश्रित उपलब्धः । न च व्यतिरिक्तधर्मान्तरोत्पादद्विनाशे सति परिणामेा भवद्भिर्यत्रस्याप्यते किं तर्हि यत्रात्मभूत स्वभानुवृत्तिरवस्थाभेदश्च तत्रैव तद्वयवस्य भेदृश्य । न चात्वन्तभेदे धार्मणामात्मभूतो धर्मो अनुवर्तत इति । तत्र भेदे परिणामः कश्चित् । एकान्तभेदे धर्मा वा स्युर्धर्मी वा ? । न तत्रापि कश्चित्परिणाम इति । ननूक्तं न सलिलात्कल्लोलानां भेो नाप्य हेरुत्फणाद्यवस्था नम् I अथ च भिन्ना इव प्रतीयन्ते तद्वदुर्माणामाविर्भावतिरोभावमात्रं परिकामनापूर्वविधिरिति । अथ कोयनाविर्भावः १ । स्वभाषातिशयोत्पत्तिरुत तद्विषयं विज्ञानमा होस्विदुपलम्भावरण वि. गमइति? । तत्र न लोवदाद्यपक्षः । यतः स्वभावातिशयेा यद्यम - दुत्पद्यते, तदा कथं सत्कार्यवादः । अथ सन् तदा नाविर्भात्रः । अथ तस्याप्यवस्था पूर्वमसती पश्चाद्भवति । ननु साध्यवस्था यदि सती तदा कथं भवति । अथ न सती तदा स कथं नापूर्व विधिरिति । तत्राप्यवस्थान्तराभ्युगमेऽनवस्थानं न स्वभावातिशयेत्पत्तिराविर्भावइति । नापि तद्विषयं विज्ञानम् । नि. त्यत्वाप्रगमात् । तथा हि-भवतां सिद्धान्तः सविदासङ्गप्रिलयादेकै बुद्धिरिति । न च न बुद्धिस्वभावा तद्विषया संवित्तिः किं तु मनः स्वभावेति वक्तव्यम् | बुद्धिरुपलब्धिरध्यवसायो मनः संबित्तिर्ज्ञानामेत्यनर्थान्तरत्वात् । तन्न तद्विषयविज्ञानमप्याविर्भाव: । नाप्युपलम्भावरणविगमलक्षणः । नानाधेयानयने स्वरूपस्य नित्यस्यावरणं किञ्चित् । श्रसद्वा यद्यत् कथं - तस्य विगमः । स्वत एव तस्य विगमरूपत्वात् । विगमरूपस्या
ܘܢ
१५३