________________
जैनवार्तिकवृत्तौ।
१५१ | तथा सर्वसंभवाभावादिति । सर्वस्मात्सर्व कार्यमुत्पद्येत । पूर्व कारणाश्रयणेन प्रसङ्ग उक्तः । संप्रति तु कार्यमाश्रित्येति विशेषः ।' न च सर्व सर्वतो भवति । तस्मादयं नियमस्तत्रैव। तस्य सद्धावा दिति । तथा शक्तस्य शक्यकरणादिति । यद्यप्यसत्कार्यवादितिनियतमेव कारणं नियतकार्यकरणशक्तिकमुपेयते तथापि शक्यमेव कार्य करोति। यच्चनीरूपं तदनाधेयातिशयतथाभूतं च कथं केन चिच्छक्येत् कर्तुम् । तस्मात्सदैव शक्यते कर्तुनासदिति। तथोक्तन्यायादसत्कार्य न किंचित्कारणं स्यात् ॥ अस्ति च कारणं तदाह-कारणभावाच्च सत्कार्यमिति । तदसत् । एवं हि कार्य. कारणे माताम् । न हि यद्यलोख्यतिरिक्तं तत्तस्य कारणं कार्य वेति व्यपदेष्टुं युक्तम् । कार्यकारणयोभिन्न लक्षणत्वात् । अन्यथा हीदं कार्य कारणमिति व्यवस्था न स्यात् । मभिदिति चेत् । न, अभ्युपगमविरोधात् । तथाहि- मूलप्रकृतिरविकृतिमहदाद्याः प्रकृतिविकतयः सप्त ।
षोडशकरस्तु विकारो न प्रकृतिः न विकृतिः पुरुषः ॥ इत्यभ्युपगमात् स बाध्येत । सर्वेषां हि कार्यत्वं कारणत्वं वा प्रमज्येत । यद्वा पुरुषवन्न प्रकृतित्वं च सर्वेषां स्यात् । पुरुषस्य वा प्रकृतिविकृतित्वं प्रसद्येत । तदसंबंद्धमिदम् । उक्तंच । यदेव दधि तरिक्षरं यत्क्षिरं तदृधीति च वदता विंध्यवासित्वं ख्यापितं विध्यवासिने ति । हेतुमत्वादिधर्मामङ्गिध्यक्तमव्यक्तमन्यदिति एतदपि बाध्येत । न हि यद्यतोऽव्यतिरिक्तस्त्रमावं तत्ततोऽपि विपरीतमुक्तम् । रुपान्तरलक्षणत्वाद्वैपरीतस्य, सत्वरजस्त्वमसां चैतन्यस्य च भेदेग्न्यनिमित्ताभावात् । ततश्च न भेदः । सर्व विश्वमेकं द्रव्यं स्यात् सहोत्पत्तिप्रभङ्गश्च भवेदिति । अथ नापूर्व. रूपोत्पत्या कार्यकारणत्वमभ्युपगम्यते यतो रूपाभेदे तद्विरुद्ध्येत