SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ - १५० शब्दपरिच्छेदः। वैधर्ममिति । वैधर्म्यप्रयोगः ॥ तथा[त्पादध्ययनोव्या. भिधायकत्वेन सत्वं व्याप्तं तद्वयोपकाभावाघाप्यामाप्रति पादन वैधयप्रयोगः । विधिश्च नियमश्च भङ्गश्चते तथोक्तास्तेषु वृत्तिस्तदभिधानम् । नयतिरिक्तत्वात्तद्रहितत्वात् । जैनादन्यच्छाशनमिति । शास्यन्ते जीवादयोऽनेनेति शासनमानायः । जिनप्रणीतस्तस्मादन्यद्वेदादि अनृतमसत्यार्थ भवति । अनर्थकवधीवत् । अनर्थकानन्मत्तकास्तद्वचनाभिव। यद्वा अनर्थकं च तद्वचनं च । दशदाहिमादिधावत् ॥ विधिरुत्पादो भङ्गो व्ययो नियमो ध्रौव्यमिति । तदात्मकसकलमेव वस्तु तस्य साकल्ये. नाप्रतिपादनादागमान्तगणां न प्रामाण्यमिति । नैगमसंग्रहव्यवहारजसूत्रशब्दममभिरूद्वैवंभूता हि सप्तन या सूत्रद्रव्यास्तिकपर्यायास्थिको मूलन यो राषास्सद्भेदाः । तदुक्तम् । दठवहिन यपज्जयणानं असेसावियप्यासिं । तत्र कापिलं शुद्धद्रव्यास्तिकम बौद्ध सुद्धपर्यायास्तिकम् । शेषदर्शनानि शुद्धाशुद्धानीति । तत्र सांख्यो ध्रौव्यमेव प्रतिपनवान्न विधिविगमौ । तस्य हि न किञ्चिदुत्पद्यते । नापि विनश्यति । तदुक्तम् । असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । व्यक्तस्य शक्य करणाकारणभावाच्च सत्कार्यम् ॥ एवं पञ्चभिः हेतुभिः सत्कार्यबादः समर्थितः । तथाहि-पदसत्तन्न केनापि क्रियते। यथा काशकुसुमम् । असच्च परमतेन कारण. कार्यमिति व्यापकविरुद्धोपलब्धिप्रसङ्गः। न चैवं तस्मात् स्यात्सकारणे कार्यमिति । तथोपादानग्रहणादिति । उपादान कारणं तस्य नियतस्यैव ग्रहणम् । अन्यथा सर्वस्यैव विद्यमानत्वाविशेषाद् ग्रहणं स्यात् , नवा कस्यचित् । न चैवमतः सत्कार्यमिति ।
SR No.022458
Book TitleJain Tark Vartikam
Original Sutra AuthorN/A
AuthorVitthal Shastri
PublisherBhagavati Prasad
Publication Year1917
Total Pages170
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy