________________
१४८
शब्दपरिच्छेदः । कप्रमाणधिऽतमेवानवस्थेतरेतराश्रयत्वं वा स्यादिति । किंत्र शब्दवाच्यं यद्यक्षणिकं तदा व्यवहारकालमाविक्रमवद्विज्ञान नोत्पद्यते । नाकमात्क्रमिणो भावः । न च स्वविषय ज्ञानोत्पादनादन्यद्वाच्वैत्वम् तन्न शब्दान् विज्ञानमवस्तुविषयत्वात्प्रमाणमित्याशङ्काड-। तापछेदेकषैः शुद्धमिति ।
तापच्छेदकषैः शुद्धं वचनं वागमं विदुः । तापो ह्याप्तप्रमणीतत्वमाप्तारागादिसंक्षयात् ॥
तापश्च छेदश्च कषश्च तैर्यदचनं शुद्धं तत्प्रमाणमिति । न शब्दस्य बाह्यार्थ विनामावित्वेनार्थप्रतिपादकत्वात्प्रा. माण्यं किं तु पुरुषप्रामाण्यमेव संक्रातं प्रमाणशब्दत्वेनाभिधीयतश्त्यक्तम् । यथाशक्यक्रियात्ववैफल्यादिदूषणममा . क्षणिकपक्षाश्रयगोन । तन्नोभयात्मकवस्तुधादिनां क्षतिमावहति। अस्पष्टविशेषविषयत्वं च परीक्षस्योक्तम । तेन न केवल. प्रामाण्य पक्षावे दोषः संभवी । अथ किमिदमस्पष्टत्वम् ? । किं ग्रहण मुताग्रहणम् । यदि ग्रहणं कथमस्पष्टत्वम् । अथाग्रहणं तदा कथं तत्प्रतीतिरिति । नानिदम् । तत्वप्रतीतेरस्पष्टत्वप्रतिपादनात् । अपि च घट शब्दादुत्पन्न विज्ञानं पट किं न प्रत्येति । यदि निर्विषयं शाब्द विज्ञानम् । अतः सङ्केतषशास्त्वन्तरमपि प्रत्येत्येव । ननु का प्रतीतिः किं ग्रहणमाहोस्विदग्रहणाम् । यदि ग्रहणं तदा कथं निषियम् ? । अथाग्रहणं तदा मद्विषयार्थः । अथ दृश्य विकल्पैकाकरणेन तद्वयवसायः नाग्रहणाव्यवसाययोगात् । प्रत्यक्षस्यापि ग्रहणं न व्यवसायात् । न हि प्रत्यक्षं वस्तु अय:मदंसकन्यायेन गृह्णाति, किंतहि तद्विषयव्यवसाय एव तद्ग्रहः । स च शाब्देऽपि समानः किं तु स्पष्टास्पष्टत्वकृती विशेषइति । नन्वेवं मर्वनिगमानां प्रमाग्यमासद्यत । नैतदस्ति । एवं हि