________________
अनुमानपरिच्छेदः ।
नाद्विरुद्वाविति । तथाहि - निश्चयेन सहाप्रतिपत्तिसंदेहावपि विरुद्वावेव तदविनाभूतौ वासिद्धानैकान्तिकाविति । सकल एव हेतुर्विरुद्धइति द्वेधासमंतभद्रस्येति । स हि प्रतिबंधविकलानां सर्वेषामेव हेतूनां व्यभिचारित्वं मन्यते । न चैकान्तसामान्ययोविशेषयोर्वा प्रतिबन्धउपपद्यते । तथाहि - सामान्ययेोरेकान्तममित्ययोः परस्परमनुपकार्योपकारभतयेाः कः प्रतिबन्धः । विशेो षयेास्तु नियत देशकालयेाः प्रतिबन्धग्रहेऽपि तत्रैव तयोरर्थः स्यात् । साध्यधर्मिण्य गृहीत प्रतिबन्ध एवान्यो विशेषहतुत्वेनापादोयमानः कथं नानैकान्तिकइति । तस्मात् समानपरिणामस्यैव सामान्यविशेषात्मना हेतोरनेकान्तात्मनि साध्ये गमकत्वं नैकान्तसाधन इति स्थितम् । सर्वज्ञसाधनविधौ परलोक सिद्वावात्मादि यच निरूपद्रव सौख्य हेतुः तत्रोपयुक्तमुभयात्मक वस्तु. निष्ठं व्युत्पादिते विशदमेतदिहानुमानम् । इति श्रीशान्त्याचार्यविरचितायां वार्तिकवृत्तावनुमानपरिछेदः ।
१४४
एवं प्रत्यक्षानुमाने व्याख्यायेदानों शब्दप्रमाणव्याख्यानमाह । ननु शब्दस्य सङ्केतवृत्तेरवस्तुविषयत्वात् कुतः प्रामाण्यां मिति: । तथा हि-ये यत्राकृतसङ्केताः शब्दास्ते तमर्थं नाभिदधति । यथा - गोशब्दादयोऽश्वादिकम् । प्रकृतसंकेताश्च सर्वएव शब्दा:परमार्थवस्तुनोति व्यपकानुपलब्धिः ॥ श्रशक्यक्रियस्ववै फलाभ्यां न तावदयमसिद्धो हेतुः । तथाहि । समुत्पन्ने वा वस्तुनि सङ्केताः क्रियन्तामनुत्पन्ने वा? । न तावच्चानुत्पन्ने । न ह्यनुत्पन्नं वस्तु शब्दस्यान्यस्य वा विषयतामुपयाति । शब्दो वाऽनुत्पन्नविषये नियोज्यमानो न कल्पितगोचरतामतिक्रमेत् । शशविषाणादिशब्द इव । तन्नानुत्पन्नं सङ्केतभूमिः । उत्पन्नमपि किं गृहीतमगृहीतं वा? । न तावद्गृहितं वस्तु संकेतगोचरीति । प्रसङ्गाद् गृहीतमपि