________________
जैनधार्तिकवृत्ती। हेताः स्यादिति । अत्रोच्यते । नित्यं सत्वादिप्रसङ्गास प्राणादयोऽहेतवः । हेतुश्चैषां यद्यचेतनस्तदा स्तंभादिष्वपि प्रसज्येरन् । सचेतनापि किं नित्यः, किंवा क्षणिक इति । न तावन्नित्यः । अनच्युतानुत्पन्नस्थिरैकरूपस्य नकदाचित क्रियाविरामः स्यात् । यदा कदाचिन मवेदित्यु. कम् । क्षणिकमपि किं विद्यमानं करोति किंवा विद्यमानम् । प्रथमपक्षे सर्वकार्यक्षणानामेककालताप्रसङ्गः । द्वितीये तु पूर्वमेव कार्यमुत्पाद्य कारणभावविशेषात्ततः । अथ प्राकालमाधित उत्तरक्षणाधित्वं किं न भवति । कोहि पूर्वोतरक्षणयोर्विशेषः। संनिधानस्याविशिष्टत्वात् । अपरस्परकर्तृत्वस्मानभ्यु पगमात् । अथ पूर्वमेव कार्यस्य सद्भावे किं कारणेन । उत्तरमपि कार्यस्य सद्धावे किं कारणेन । तस्मिन् सति उत्तरस्य भावादिति चेत् । पूर्वस्यापि समानम् । अथैवमस्तु तथापि क्षणिकस्य कर्तृत्व सिद्धमिति चेत् । न सिद्धम् । सत्तामात्रेणै कर्तृत्वे सर्वकार्यकर्तृत्वे स्यात् । स्वसंतानमेकं न करोति । नान्यसन्तानमिति चेत् । न, इतरेतराश्रयत्वप्रसङ्गात् । तथाहि-। कार्यत्वादेकसन्तानत्वमेकसन्तानत्वात्तत्त्व मिति । तम क्षणिकस्यापि कर्तृत्वम् । तस्मात्कञ्चिदजहात्पूर्वरूपस्य द्रव्यस्यैवोत्तरात्तरेषु परिणतः कर्तृत्वं नान्यस्येति । तेन सिद्ध न प्रामाणादिरात्मानमन्तरेणापपद्यत इति । वि।। पक्षव्यावृत्तिरेवान्ययमन्तरेणापि गमिकेति । ननु सम्बन्धमन्तरेण कपमन्यथानुपपन्न त्यमित्याशङ्खाह-। सम्बन्धिभ्यामि त्यादि। संबन्धिभ्यां विभिन्नश्चेत्सबन्धः स्यान्नलोष्ठवत्। अनवस्था प्रसज्येत तदन्यपरिकल्पने ॥