________________
१३८
अनुमानपरिच्छेदः। किमपि कारणं स्यात्तदायमपि धूमो न बहेरुत्पाद्यमान उपलम्येत । ततोभ्यात सकलमेवैतद्रपं सर्वत्र विधरूपमन्तरेण नोपपद्यतइति । तच्च तर्काख्यं प्रमाणं केचित्प्रत्यक्षं मन्यन्ते । अपरेऽनुमानमन्ये प्रमोखान्तरमिति। तदेवमन्यथाज्नुपपन्नत्वमेव निबन्धनं न त्रैरूप्यमिति । अथान्यथानुपपत्तिठर्यतिरेकः स नान्वयमन्तरेण घटते । तथाभूतश्च हेतुः क्वचिद्धमिण्युपसंहर्तव्यः । अन्यथा सर्वत्र प्रतीति जनयेन वा कचिदपीति, तत्कथं न रूप्यमित्येतदाशझ्याह-। व्यतिरेकानुपपत्तिश्चेत्स्यादन्वयनिबन्धना । कथं सत्त्वं विना तेन क्षणिकत्वप्रसाधकम् ॥
व्यतिरेकानुपपत्तिश्चेदित्यादि । नैतदस्ति । न हि सर्वत्रान्वयाविनाभूतो व्यतिरेकः परैरप्यभ्युपगम्यते । तदुक्तम् । यो हि सकलपदार्थव्यापिनी क्षणिकतामिच्छति तं प्रति दृष्टान्तस्यैवाभावादिति । एतदेवाह-कथमित्यादि । इदानी स्वसिद्धान्तमाह-। विनाप्यन्वयमात्मादावित्यादि। विनाप्यन्वयमात्मा दौप्राणादिसाधनं यदा । तदा स्यान्नान्वयापेक्षा हेतोः साध्यस्य साधने॥
नेदं निरात्मकं जीवशरीरम् । अप्राणादिमत्यप्रसङ्गादिलि । अस्मिन् प्रयोगे केवलोऽपि व्यतिरेको गमकत्वे निबन्धनइति वर्णयन्ति। अथात्मानमन्तरेण प्राणादिसत्वस्यानुपपत्तिः कथं मिश्चिता । स्तंभादिषु नैरात्म्यस्याप्राणादिमत्वेन व्याप्तरिति चेत् । ननु स्तंभादिषु नैरात्म्यं कथं निश्चितम्।। न तावत् प्रत्यक्षेण । परोक्षत्वादात्मानः । तदभावद्वा । अनुमानेन पराम्युपगमेन तु तनिश्चये काल्पनिकत्वं
-