________________
जैनवार्तिकवृत्तौ।
१३७ | दिति । ननु सविशेषो व्याप्तिग्राहिणा प्रमाणेन प्रतिपन्नः किं वा नेति? । यदि प्रतिपन्नस्तदा किमनुमानेन । अथ गृहीतस्तदान तस्य व्याप्तावन्तर्भाव इति नदेव व्याप्तिग्राहिणा प्रमाणेनान्यथानुपपत्तौ गृहीतायां न किञ्चिनरूप्येण । अथ यदि व्याप्तिग्रा. हिणा प्रमाणेन साकल्येन व्याप्तिग्रहणं तदा किं हेतूपन्यासेन। साध्यस्य सिद्धत्वादिति । असत्यं प्रतिपाद्यायं हि तदुपन्यासः। तथाहि-द्विविधः प्रतिपाद्यो गृहीतव्याप्तिको गृहीतव्याप्तिकश्च । तन्न । भगृहीतव्याप्तिग्राहकप्रमाणापदर्शनमेव नोपपद्यते प्रथमं हेतूपन्यासमन्तरेण । तच्च सपक्षाद्यनपेक्षं प्रवर्त्तमानं त्रैरूप्यं व्यपोहति । गृहीतव्याप्तिकस्य तु हेतूपदर्शनमात्रमेव क्रियते । एतत्रुप्यमुक्तम् । विदुषा वाच्यो हेतुरेव हि केवल इति । तदेवं सति नियमेन किञ्चित्त्रैरूप्येण कार्यकारणभावाद्वा स्वभावाद्वा नियामकादविनामावनियमोग्दर्शनान । न दर्शनादिति चेत् । न, दर्शनादर्शनाभ्यां नियमं मन्यन्ते किं तु तर्कादभ्यूह्यपर. नाम्नः । तथाहि-। प्रमाणातादात्म्यतदुत्पत्ती यों निश्चीयेते तथा नियमापि निश्चीयता किं व्यवधिना । एतदेवाह- का. र्यकारणसदाव इत्यादि ।
कार्यकारणसद्धावस्तादात्म्यं चेत्प्रतीयते । प्रत्यक्षपूर्वकात्तद्वत् कथं नानुपपत्रता । . ननु तर्कात्कार्यकारणत्वादि परस्य निश्चीयते, किं तु बाधकप्रमाणातत्कथमेतदिति । अत्रेदमुच्यते । किमिदं बाधक प्रमाणम् । किं प्रत्यक्षमुतानुमानमिति । तत्र यद्यनुमानं तदानवस्था । नापि प्रत्यक्षम् । तद्धि नि बिकल्पकत्वात्पुरोव्यवस्थितयोरपि वहिधूमयोः कार्यकारणभावं प्रत्येतुं शक्रोति किमंग पुनः साकल्येनेति । तस्माद्यदि धूमस्यान्य
-