________________
१२६
अनुमान परिच्छेदः ।
भ्युपगतं तस्मात्तदेव नियतार्थग्रहणे ज्ञानस्यास्तु किं व्यवधिना । न च स्वाभाव्यमहेतुकं किंतु कर्मणः क्षयोपशमवैविध्यादास्मै व नियतार्थज्ञानाकारः तथापरिणमस्तांस्तान्नर्थान्प्रतिपद्य गतिस्थितमित्यन्यलक्षणतमः पटलं निरस्य प्रत्यक्ष नक्षिस मुद्बल दर्शनाय श्रीमिसेनघटितस्युतगीः शलाकां शुद्धामवाप्य विमलं विहितं मयैव तत् ॥ इति श्रीशान्त्याचार्यविरचितायां वार्त्तिकवृत्तौ प्रत्यक्ष परिच्छेदः ॥ १ ॥
एवं प्रत्यक्ष संख्या लक्षणगोचर फलविप्रतिपत्तिं निराकृत्येदानीं परोक्षस्य तां निराकर्तुमाह । पूर्वमेव परेक्षस्येत्यादिना पूर्वमेव परोक्षस्य विषयः प्रतिपादितः । प्रमाणफलसद्भावो ज्ञेयः प्रत्यक्षवद्बुधैः ॥ १ ॥
अनुमानशब्दलक्षणस्य परेक्षिस्यास्पष्टास्त एव स्युरित्यादिना विषयोऽस्पष्टात् । सामान्यं प्रतीयमान विशेषमन्तरेणानुपपद्यमानं सलिलादावपि प्रवर्त्तयेत् । अथ विशिष्टं तदा वैशिष्ट्य वक्तव्यम् । किं तत्र ममवायः किं वा तस्येदमिति प्रतीतिरिति ? | न समयायः । तस्य निरस्तत्वात् । साधारणस्य च समवायस्य न विशेषकारित्वमिति । द्वितीये तु पक्षे इतरेतराश्रयत्वम् । तथाहि । विशिष्टमामान्यप्रतीती विशेषप्रतीतिः, विशेषप्रतीतौ विशिष्टसान्यप्रतीतिरिति । कि चतस्येदमिति प्रतीतावपि नियतदेशविशेषाप्रतीती नानुमानादेः प्रवर्त्तेत व्याप्तिग्रहणकाले च बहूघादिसामान्यस्य सिद्धत्वाद्ग होतग्राहित्वेन च प्रामाण्यं न स्यादिति । विशेषाउपि सामान्येन प्रतीयत इति चेत् । सामान्येनेति कोऽर्थः । किं सामान्यमेव सामान्यं प्रतीत्य प्रतीयते, किंवा विशेष
•