SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ जैनवार्तिकवृत्तौ । प्रत्यक्षेण प्रतीयते किं वाऽनुमानेन ? । न तावत् प्रत्यक्षेण । तेन तस्याप्रतीतिरित्युक्तम् । नाप्यनुमानेन । अनवस्थाप्रसङ्गात् । अथ निमित्तमात्रापेक्षया व्याप्तं प्रतीयते । तईि योग्यदेशादिविशिष्टं सामर्थ्य मात्र पर्यायमपेक्षमाणाश्ते कायें न कुर्वमतीति न पुनः संयेोगमिति । तन्नास्ति कश्चित्सत्रिकर्ष इति । भवतु वा, तथापि तस्य प्रमाणत्वं न सम्भवति । तथाहि किसी स्वयमेव प्रमाणं किंवा प्रमाणजननादिति ? | स्वयमेव कि ज्ञातेोऽर्थं ज्ञापयति श्रज्ञातो वा ? | ज्ञातेोऽपि कि प्रत्यक्षेण किं वानुमानेन ? | प्रत्यक्षेणापि किं सामान्यरूपतया किंवा विशेषरूपतया ? | यदि सामान्यरूपतया न प्रतिकर्म व्यवस्थां कुर्यात्, विशेषरूपतयाऽपि तज्ज्ञानं कर्माणि ज्ञाते स्यात् । नहि मोलाज्ञाने नीलस्यायं संनिकर्ष इति ज्ञानं भवति । の नीलज्ञानं किं तत एव संनिकर्षात् अथान्यतः ? | यदि तत एष, तदा इतरेतराश्रयत्वम् । नीले ज्ञाते तज्ज्ञानं तज्ज्ञानाच्च मोलज्ञानमिति । अथान्यतः संनिकर्षात्, तदा तदेव चोद्यं तदेवात्तामिति अनवस्था च । प्रधान्यतः प्रमाणानीलज्ञानं तर्हि किमन्तर्गडुना तेन । तदर्थं हि स परिकल्प्यत इति । किं वा स्वसंवेदन प्रत्यक्ष नाभ्युपगम्यते । तत्परिज्ञान पुनरन्येन इन्द्रि यस क्रिकर्षेण तस्याप्यन्येनेत्यनवस्था । न च सन्निकर्षे सि कर्षः । निर्गुणा गुणा इत्यभ्युपगमात् । अथ संयुक्तसमवायात्तस्य ग्रहणम् । तथाहि सयोगाद् द्रव्यग्रहणम्, संयुक्तसमवायाद् गुणग्रहणम्, संयुक्तसमवेतसमवायाद् गुणत्वग्रहणम्, समवाव्याञ्च शब्दग्रहणम्, समवेतसमवायाच्छ उदयग्रहणामिति, विशेषणविशेष्यभावादभावग्रहणमिति षोढा सन्निकर्ष इति । तद
SR No.022458
Book TitleJain Tark Vartikam
Original Sutra AuthorN/A
AuthorVitthal Shastri
PublisherBhagavati Prasad
Publication Year1917
Total Pages170
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy