________________
११२
अनुमान परिच्छेदः ।
रूपदृष्टेः स्मृतिर्यद्वत्तद्वत्पूर्व विशेषणे । दृश्यमानार्थ तुल्येन वस्तुना सहचारि यत् ॥ पर्वकालादितत्स्मृतं वर्त्तमानविशेषणम् । `तत्स्थितं स्मरणाध्यक्षात्कल्पनाज्ञानमीदृशम् ॥ यत्स एवायमित्यस्य नापूर्वार्थग्रह स्थितिः । निश्चितत्वं दृढत्वं वा सविकल्पकतापि या ॥ दृढत्वमप्यनाशित्वं किं वा बाध्यत्वमुच्यते । सर्वासां क्षणिकत्वेन नानाशित्वं हि संविदाम् ॥ अबाध्यतापि नैवास्ति यस्मादग्रे गदिष्यते ॥ अनुमानादूते नान्यत्कल्पनाज्ञानमिष्यते । प्रमाणं प्रत्यभिज्ञाया नच लिङ्गमिहास्तिवः ॥ प्रत्यभिज्ञायमानत्वे यदि लिङ्गमतेाच्यते । तस्याप्यध्यक्षता व्याप्तिर्नैकत्वेन सह कचित् ॥ यद्यनुमानतो व्याप्तिरनवस्था पतेत्तव ।
स
न ताभ्यां मानमस्त्यन्यत् यस्माद्वयाप्तिग्रहो भवेत् ॥ कल्पनापोढमध्यक्ष निर्विकल्पक सिद्धित: । ज्ञातव्यं प्रत्यभिज्ञातो नाध्यक्षं कल्पना युता ॥ नाक्रमात् क्रमिणाभावो नाप्यपेक्षा विशेषणः । क्रमोद्भवा सती सा तु स्वयमेकत्वबाधिका ॥ तेनाबाध्यत्वमप्यस्या नानुमानाच्च बाधनात् ॥ न वानयापि बाध्यत्वा दनुमानमबाधकम् । अप्रमाण्येन युक्तायाः कुतो बाधकता स्थितिः ॥ अप्रामाण्याच्च नैवास्याः अनुमानं प्रमेष्यते । अन्योन्याश्रय दोषोऽपि तेन नास्ति विपश्चिताम् ॥ स्वाध्यप्रतिबन्धादि प्रमाणमनुमेध्यते ।