________________
११० .
अनुमानपरिच्छेदः। प्रतिभासन इति । निरंशस्य परमाणारप्रतिभासने सतीत्यर्थः । तस्मात्प्रथमाक्षसंनिपात एव दीर्घहस्ववर्तुलादिवस्तुप्रत्यक्षे प्रतिभातीति तेन तत्सविकल्पकमिति स्थितम् । एवं तिर्यक्सामा. न्यमवस्थाप्येदानीमूर्ध्वतासामान्यमवस्थापयितुमाह-। भेदज्ञानादित्यादि। भेदज्ञानात्प्रतीयन्ते यथा भेदाः परिस्फटम् । तथैवाभेदविज्ञानादभेदस्य व्यवस्थितिः ॥
तथाहि-यद्यथा प्रतिभाति तत्तथा सयवहृतिमवतरति । यथा कुवलयं नीलरूपतयां विराजते तेनैव रूपेणास्ति । क्षणपरिगतेनैव च सूपेण सकलाः पदार्थमात्राः प्रतिभान्ति । न पूर्वापरकालपरिगतेनात्मनेति स्वभावाहेतुः प्रत्यक्षसिद्ध व्यवहारप्रवर्तनफल इति । तथा यत्सत्तत्सर्वक्षणिकमित्यादयः भेदज्ञानाद्यथा भेदपर्यायाः क्षणिकाः प्रतीयन्ते तथारभेदज्ञानादनुगताकारादभेदस्य द्रव्यस्य व्यवस्थितिरिति । अथेदमनुगतं जानं निर्विषयत्वादप्रमाणम्। तपाहि
किं दृष्ट प्रत्यभिज्ञानमुतस्विन्मध्यवर्तिनि । किंवा दृष्टिपथं प्राप्ते प्रमाणं वस्तुनीष्यिते ॥ तत्र पूर्वोत्तराध्यक्षे आये पूर्वोत्तरग्रहे क्षमे । मध्येनेन्द्रियवृत्तिः स्यात्कथं तत्र प्रवर्तते ॥ न चावस्थात्रयव्यापि किञ्चिदेकं प्रतीयते । प्रत्यक्षेण तथानाधे जन्ममृत्युगतिर्भवेत् ।। किञ्च किं दृष्ठतां वेत्ति किंवा कालादियोगिताम् । दृष्टत्वं दृश्यमानत्व किमतेन प्रपद्यते ॥ किं वा भेदेन पूर्वस्मिन्स इत्ययमिति । पास्यात्सायनेति मतिभवेत् ॥
-
-