________________
१०८
अनुमानपरिच्छेदः। कोऽयं प्रतिभासधर्मः । किं वस्तु किं वा वस्तु ? । यदि वस्तु तदाऽवयविदूषणम् । प्रथावस्तुतदा कथ मभ्रान्तिः ? । प्रत्यक्षं प्रचयावभासि । नैतदस्ति । यतो न किंचित्स्थौल्यं परमाणुभ्यो ऽन्यत् किन्तु वित. तदेशाः परमाणवस्तथा प्रतिक्षासन्त इति । कथं नान्तरावभास इति चेत् । किमिदमन्तरम् ? । किमाकाशं किं बा विजातीयाणवः, किं वा सूपभेदो, देशभेदो, वेति?। तत्राकाशविजातीयपरमाणुप्रतिभासाभावो न दोषाय | नहि रसपरमाण्वप्रतिभासश्चाक्षुषोऽतीन्द्रियाकाशप्रतिभासो वा दोषमावहति भिन्नरूपता तु प्रतिभासतएव । अन्यथो परमाणु मात्रप्रतिभासः स्यात् । देशोऽपि न स्वरूपादन्यः सोऽपि स्वरूपेणैव व्याख्यातः । अन्यथा भिन्नस्वरूपपरमाणवप्रतिभासे न किंचिप्रतिभामते । अन्धमकं जगत् स्यादित्येतदेवाह । भिन्नदेशस्वरूपाणामित्यादि। भिन्नदेशस्वरूपाणामणनां संग्रह सति । तत्स्थौल्यं यदि कल्पेत नाभासे न किजन ॥
इह किं स्थौल्यमात्र प्रतिभाति किं वा स्थौल्यविशेष इति? । तत्र यदि स्थौल्यमानं तदा नीलार्थी पीतेऽपि प्रवर्तत । यदा न कुत्रचिदपि। शेषानवधारणात् । अथ विशेषः स नीलपरमाणुप्रतिभासे सति नीलस्येदं न पीतस्यति प्रतिमासेत् । तेषां चाभिन्नस्वरूपणां प्रतिभासताभ्य पगमे तेषां स्थौल्यमपि न प्रतिमासेत । नचैवम् । अतः परमाणव एव वितदेशास्तथावमानान्यत् किंचिदिति यत्प्रत्यक्ष कल्पनात्वमादधीतेत्याशङ्काह-। नैतदस्तोति ॥ नैतदस्ति यतो नास्ति स्थौल्यमेकान्ततस्ततः ।