________________
१०२
प्रत्यक्ष परिच्छेदः । तत्वमिति चेत् । किमिदं बाधितत्वम् ? । नेदमिति प्रत्ययोत्पत्तिरिति चेत् । जाग्रत्प्रत्ययेषु तदभावात सत्यतास्तु । न हि सत्यस्तंभप्रत्यगेषु कदाचिद्धाधकोत्पत्तिरस्ति । अथ स्वप्नप्रत्ययेष्वप्यर्थक्रियाकारित्वं संवादापाधितस्वमस्ति । न च सत्यतापगतार्थवादिना तेन। न तत्सत्यत्वे निबन्धनमिति । नैतदस्ति । सर्भपि भ्रान्तिनिबन्धना । यथा मरीचिकासु जलभ्रान्तिः । तथो च स्वप्न प्रत्यये सत्यर्थक्रियानुभवपूर्वकं स्मरणमात्रकमेव न तु तत्र किञ्चिदर्थ क्रियादि । अन्यथा जाग्रदननुभूतस्य किं न कस्यचिदर्थस्य तत्रोपलम्मो भवति । अपि चार्थ निषेधः किं प्रमाणेन क्रियते, किं धाप्रमाणेन ? । प्रमाणेन कथं तनिषेधः ? । प्रमाणमपि तनिषेधकं वाविनाशकत्वेन, किं वा विपरीतार्थोपस्थापकत्वेन, किं वा ग्राहकस्वेनेति ? । प्रथमपक्षे सिद्धोऽर्थः । न ह्यसिद्धस्य विनाशः संभवति । द्वितीयेऽपि पक्षे अथाऽर्थस्य बाधक इति कथं नार्थसिद्धिः । अग्राहकं तु संदेहकारि भवतु कथं तन्निषेधकं दृश्यस्य। कथं नेति चेत् । मनु पूर्वदृष्टस्यैक जानसंसर्गिण्युपलभ्यमाने आरोपादृश्यत्वम् । नचायमत्यन्तादृष्टस्य प्रकारः संभवति । ज्ञानात्मन्युलभ्यमानेऽदृष्टस्यापि तादात्म्येन निषेध इति चेद्भपतु ज्ञानात्मनो न भिन्नस्य । अथ भिन्नस्यानुपलम्भान्निषेधः । तत्किमयं नीलाद्याकारोऽनुभूयते न वेति? । प्रथास्त्ययमाकार: किं तु ज्ञानात्मनैव । जडस्य प्रकाशायोगात् । तदेवाह-। न जडस्येत्यादि ।
न जडस्यावभासोऽस्ति भेदाभेदविकल्पनात् । न भिन्नविषयं ज्ञानं शून्यंवा यदि बाततः ॥ प्रकाशस्य भेदे जहस्य किमायातम् । अभेदे जडमेव न