________________
जैनवार्तिकवृत्तौ ।
१०१
वस्तु न योगिप्रत्यक्षवदिन्द्रियजप्रत्यक्षं निश्वापयति । प्रत एव लव्यवहारप्रत्यक्षम् । येोगजं तु साकल्येन निश्वापयति । तेन निश्चयप्रत्यक्षमिति । इदानीं विशेषेण विषयविप्रतिपत्तिं निराकर्तुमाह-द्रव्यपर्यायेत्यादि ।
द्रव्य पर्यायसामान्यविशेषास्तस्य गोचराः । अविस्पष्टास्त एव स्युरनध्यक्षस्य गोचराः ॥
तल्लक्षणस्य वक्ष्यमाणत्वात्तस्य प्रत्यक्षस्य विषय इति संक्षेपार्थमिहैव परोक्षस्य विषयविप्रतिपत्तिं निराकुर्वन्नाह । प्रविस्पष्टा इति । प्रनिदन्तयावभासमाना द्रव्यपर्यायसामान्यविशेषाः परोक्षस्य विषया इति । ननु बाह्यर्थाभावात् कथं द्रव्यादिनां विषयवत्प्रत्यक्षादिः । मत्रोच्यते । कथमर्थाभावः ? । तत्साधकप्रमाणो भवादिति चेत् । विशदत्तरदर्शनमेव तत्साधकं प्रमाणम् । स्पप्नदर्शनवदपारमार्थिकमिति चेत् । ननु किमिदमपारमार्थिकत्वम् । अर्थशून्यत्वमिति चेत् । इतरेतराश्रयत्वम्तथाहि । अर्थशून्यत्वे पारमार्थिकत्वमपारमार्थिकत्वेऽर्थशून्यत्वमिति । येन चार्थे न दृष्टः, स कथं ब्रूयादर्थे नास्तीति । परप्रसिद्ध्यति चेन्न । परप्रसिद्ध रेप्रमाणत्वात् । प्रमाणत्वे वा कथं तन्निषेधइति । अपि चानुभूयमानस्यापि स्वप्नदृष्टान्तेन यद्यर्थस्याभावा 'ज्ञानस्याप्यभावः स्यात् । स्वप्नानुभूतस्य चार्थस्यासत्यत्वं किमप्रतिभासमानत्वात् किं चार्थक्रियावैकल्यादिति ? | म तावदाद्यः पक्षः । तदानीं तस्यानुभूयमानत्वादुपलब्धिः सत्येति वाभ्युपगमः । अथार्थक्रियावैकल्यात्त क्रियाकारी जाग्रद्दशायामर्थः सत्यः स्यात् । विसंवादादिति चेत् । कोऽयं विसंवादः ? 1 ज्ञानान्तरेणाग्रहणमिति चेत् । तर्हि जाग्रद्दशायां तदस्तीति सत्यता स्यात् 1 बाधि