________________
जैनवार्तिश्रवृत्तौ ।
सभेदान् दर्शयन्नाह । स्मृत्यू हा दिकमित्यादि । ज्ञानमिन्द्रियजं ज्ञानं विनेन्द्रियमनिन्द्रियम् । स्मृत्यादिकमित्येके प्रातिभं च तथा परे ॥ स्वप्नविज्ञानमित्मन्ये स्वसंवेदनममेधतः ।
O
स्मृतिश्च वितर्क लक्षणा । आदिग्रहणादद्वायस्तद्रूपमनिद्वियम् । एकेऽनन्तवीर्यादियः । प्रतिभया स्वामे भ्राता आगमि - व्यत्येवं रूपया निर्मिते प्रातिभं वा परे टीकाकृतः । स्वप्नविज्ञानं यत्स्पष्टमुत्पद्यते तदन्येऽनन्तकीर्यादयः । स्वसंवेदनमेव नोऽस्माकमिति । एवं मन्यते वार्तिककारः अथादिनां भाविन एव ज्ञानस्य प्रामाण्यमुचितं न स्मृतेः । अर्थमन्तरेणापि तस्याभावात्प्रत्यक्षादेस्त्वव्यभिचारनिमित्ताभिधानात्कस्यचिद् व्यभिचारेऽपि न दोषः । नन्वेवं स्मृतेरव्यभिचारनिमितमस्ति । म्रमूढस्मृतेस्तु पूर्वप्रत्यक्ष फलत्वान्न पृथक्प्रमाययम् । कहस्तु संशयविशेष एव कुतस्तत्प्रमाण्यं स्यात् । अवायस्तु प्रत्यक्षानुमानफलत्वेन न ताभ्यां प्रमाणान्तरमिति । काकतालोयसंवादयेोरपि प्रातिभस्वप्रविज्ञानयोः प्रमाणत्वेन किलि प्रमाणं स्यात् । तस्मात् स्वप्नस्य ज्ञानात्मनेा वेदनमेव प्रमाणमिति । मानसं तु मनेाभावान्निरस्तम् । अथ मनेाभावे येाग्येsपि विषये कथं युगपदज्ञानानुत्पत्तिः । उक्तमेतत् । उपयोग अभिमुख्यमिति । तद्यत्रात्मनस्तन्न भवति तत्रानुत्पत्तिरिति । श्राभिमुख्ये तु युगपदपि । श्रथ भ्रान्तासौ । नैतदस्ति । एवं हि सौगतस्य क्षणिकत्वे सान्त एव भासप्रसङ्गदूषणं सुदूरं निरस्तं
स्यात् । तदुक्तम्—
पशुभिर्व्यवधानेऽपि भात्यव्यवहिते च था । साक्षध्वंसिनेार्थस्य नैरन्तर्यं न वेति किम् ॥