________________
प्रत्यक्षपरिच्छेदः ।
तरमिति नेह प्रत्यन्यतइति विप्रतिपत्तीः प्रतीत्याह-। जीवां शात्कर्मनिमुक्तादिति । जीवप्रदेश एवं कर्मक्षयोपशमत्वादिन्द्रियं नान्यत् । तथाहि-किं चक्षरायेव रूपादि जानाति किंवा प्रकाशयति? । प्रथमपा एकस्मिन्नपि शरीरे पञ्चात्मानः प्राप्नुवन्ति । अहंकारभूतानामचेनत्वात्तत्प्रकृतेरिन्द्रियस्य कथं द्रष्दृत्वमिति । अथ प्रकाशयति, किं न तमसि बिडालादेर्भूय. स्तेजः प्रकाशयत्वेवं किं न मनुष्यस्य । स्वल्पत्वात् तेजस इति चेत् । बहूनामेकत्र दृष्टिपाते किन्न प्रकाशयति ? । अपि च समः किं तेजोभावः, किंवा वस्त्वन्तरमिति । अभावस्य नायनरम्यावारकत्वायोगात् । वस्त्वन्तरमपि रूपमेव रूपस्यावरणम् । अ. न्यथा वायवादेरप्यावारकत्वं स्यात् । ततस्तमसा रूपवता चक्षुरश्मीनां मंयोगे तमोदर्शनमासज्येत । कृष्णरूपं दृश्यत इति चेत् । न, तथाविधदर्शनस्य मिनाक्षेपिभावात् । तन्नेन्द्रियं भौतिक कित्वात्मा चेन्द्रियम्-तदुक्तम्-लब्ध्युपयोगो मावेन्द्रियाण्यधितिष्ठत इति । एतदुक्त भवति । अनुपहत चक्षुरादिदेशेष्वेवास्मनः कर्मक्षयोपशमस्तेनास्थ गितगवाक्षतुल्यानि चक्षुरादीन्यु. पकरणानि । प्रात्मनो जानोत्पत्ती कर्मणो वैचित्र्यान्यथात्मनोव्यापित्वान्मुक्तात्ममनःसंयोगजं प्रत्यक्ष किं नोपपद्यते । यच्चभौतिकत्वसिद्धौ शाखाचन्द्रमसोः स्फुटतस्यापि युगपत्प्रतिमासस्य भ्रान्तत्वमाशुकारित्वादुक्तं तदीश्वरज्ञानस्यापि युगपदनेकार्थग्राहिणोनान्तत्वमापादयति । न च तत्क्रमवत् । अशेषा ग्रहप्रसङ्गात् । एकत्रैवानन्तपर्याये क्षीणत्वात् । यच्च विषयमवाप्य विकासित्वं चक्षुषस्तत्साधनधर्म मनु करोति, तदेवं फल्गुणायं परोदित मुपेक्षित मिति । लैङ्गिकवदैन्द्रियत्वव्यपदेशः । तेन द्रव्येन्द्रियेण विना यत्प्रत्यक्ष तदनिन्द्रियम् । तत्र ग्रन्थकारम
-