________________
जैनबार्तिकवृत्तौ। भेदाः समानविषयाइत्युपलब्धं तद्वदिन्द्रियेषु समानविषयत्वं स्यात् । दृष्टा तु प्राणादेर्गन्धादिषु व्यवस्थेति नानाप्रकृतिकत्वम् । तथा च नानाजात्यु पादानानीन्द्रियाणि । द्रव्यत्वे सतिप्रतिनियविषयत्वात् । यद्यद्व्यत्वे सति प्रतिनियतविषयं तत्तन्न जात्यु पादानं दृष्टम् । यथा व्यजनानिलप्रदीपकस्तुरिकादे. स्तथा चैतानि द्रव्यत्वे सति प्रतिनियतविषयाणि । तस्मान, जात्युपादानानीति । तथाहि-ज्ञानशब्देष्वेकजात्युपादानत्व' प्रतिनियतविषयत्वं चेति व्यभिचारः । तदर्थ द्रव्यत्वे सतीति विशेषणम् । न चास्य पक्षधर्मात्वादिकम् । अत्तोऽप्रमाणत्व मिति प्रसङ्गात् । यथाभौंतिकत्वेऽनुमानमिन्द्रियत्वादिति । अत्र भूतादभिनिवृत्त भौतिकं तत्प्रतिषेधेन च कारणान्तरमभवत्वं विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वादिति साध्यविकला दृष्टाम्तस्तथा च मनसि भौतिकत्वम् । नाप्यौतिकत्वमिति । श्रथ भूतादुत्पतिप्रतिषेधेन नित्यत्वम् । तत्राप्यभ्युपगमध्याघातो मनस्यपि नित्यत्वानभ्युपगमात् । इद्रियत्वं घोक्तवि. शेषणस्यापरोक्षधानजनकत्वेन भूतादुत्पत्तिप्रतिषेधेनेत्यन्यथा. सिद्धम् । निर्मूलं चेन्द्रियाणामाङ्कारप्रभवत्वम् । तत्सद्भावे प्रमा. णसंभवात् । तथाहि-प्रमाणमदावे सत्येषा प्रक्रिया तस्य चासत्त्वं वक्ष्यमाणमिति । येषां वा संसारमगहलव्यापीनीन्द्रियाणि 'तेषामशेषविषयग्रहणप्रसङ्गः । प्रथादृष्टवशानिय. सदेशावृत्तिय॑ज्यत इति चेत् । अत्र वृत्तीनां तादात्म्येन किं. विदुक्त स्यात् । व्यतिरके तु तदेवेन्द्रियमिति संज्ञामात्रमेव । अथ नियतविषयावबोधान्यखानुपपत्त्या सदाकारतैकेन्द्रियस्य परिनिश्चीयते । तन्न । अन्यथानुपलम्भात । तथाहि- नियतार्थसंमिकऽप्युपलम्भो घटत एक । न च व्यापित्वं परस्थाभीष्ट