SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ එල් षड्दर्शनसमुच्चयः सटोकः । यो यो धूमवान्, स स कृशानुमान्, यथा महानसमित्यादि । व्यतिरेकमुखेन यथा । यो यः कृशानुमान्न भवति, स स धूमवान्न भवति, यथा जलमित्यादि । उपनयो हेतोरुपसंहारकं वचनम् । धमवांश्चायमित्यादि । निगमनं हेतुपदेशेन साध्य5 धर्मोपसंहरणम् । धूमवत्त्वात्कृशानुमानित्यादि ॥ अथ तर्कतत्त्वम् । तर्कः संन्देहोपरमे भवेत् । सम्यग्वस्तुस्वरूपानवबोधे किमयं स्थाणव पुरुषो वेति संदेहः संशयस्तस्यापरमे व्यपगमे तर्कों ऽन्वयधर्मान्वेषणरूपो भवेत् । कथमित्याह । यथा काकादौत्यादि । यथेत्युपदर्शने । काकादिसंपातात् 10 वायस प्रभृतिपचिसंपतनादुपलचणत्वान्निश्चलत्ववल्लगारोहणादित्रा स्थाणुधर्मेभ्यश्चात्ता॒रण्यप्रदेशे स्थापना कौलकेन भाव्यं भवितव्यम् । हिशब्दो ऽत्र निश्चयोत्प्रेचणार्थे द्रष्टव्यः । संप्रति हि वनेऽ मानवस्यासंभवात्र्याणुधर्माणामेव दर्शनाच्च स्थाणुरेवात्र घटत इति । तदुक्तम् । अरण्यमेतत्सवितास्तमागतो न चाधुना संभवतोह मानवः । ध्रुवं तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाना || इत्येष तर्कः ॥ अथ निर्णयतत्त्वमाह । ऊर्ध्वमित्यादि । पूर्वोक्तस्वरूपाभ्यां संदेहतर्कभ्यामूर्ध्वमनन्तरं यः प्रत्ययः स्थाणुरेवायं पुरुष एवं 20 चेति प्रतौतिः स निर्णयो निश्चयो मतो ऽभौष्टः । यत्तदावर्थसंबन्धादनुतावपि क्वचन गम्येते, तेनाच तौ व्याख्यातौ । एवमन्यत्रापि मन्तव्यम् ॥ 15
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy