________________
नैयायिकमतम् ।
दादोनां च अभौतिकानि संख्यानाम् । तथा सांख्यानां सर्वं सदेवोत्पद्यते न पुनरसत्, नैयायिकादीनां सर्वमसदे - वोत्पद्यते सामग्रीवशात्, जैनानां तु सदमदुत्पद्यत इत्यादि ॥
यस्य सिद्धावन्यस्य प्रक्रियमाणस्य प्रतिज्ञार्थस्य प्रसङ्गेनाधिकस्य सिद्धिः, सो ऽधिकरणसिद्धान्तः, यथा कार्यत्वादेः चित्यादौ बुद्धिमत्कारणमामान्यसिद्धावन्यस्य तत्करणसमर्थस्य नित्यज्ञानेच्छाप्रयत्नाधारस्य तत्कारणस्य विद्धिरिति ॥ प्रौढवादिभिः स्वबुद्ध्यतिशयचिख्यापयिषया यत्किंचिद्वस्लपरौचितमभ्युपगम्य विशेषः परौच्यते, सो ऽभ्युपगमसिद्धान्तः यथास्तु द्रव्यं शब्दः, स तु किं नित्यो ऽनित्यो वेति शब्दस्य द्रव्यत्वमनिष्टमभ्युपगम्य 10 नित्यानित्यत्वविशेषः परीक्ष्यते ॥ एवं चतुर्विधः सिद्धान्तः ॥ श्रवयवादितत्त्वत्रयं प्ररूपयति ।
"
प्रतिज्ञाहेतुदृष्टान्तेोपनया निगमस्तथा । अवयवाः पञ्च तर्कः संदेहोपरमे भवेत् ॥ २७ ॥ यथा काकादिसंपातात्स्थाणुना भाव्यमत्र हि । ऊर्ध्वं संदेहतर्काभ्यां प्रत्ययो निर्णयो मतः ॥ २८ ॥
૭૫
15
युग्मम् । श्रवयवाः पञ्च, के पञ्चेत्याह । प्रतिज्ञा हेतुर्दृष्टान्त उपनयो निगमशब्देन निगमनं चेति । तत्र प्रतिज्ञा पचा: धर्मधर्मिवचनं, कृशानुमानयं सानुमानित्यादि । हेतुः साधनं लिङ्गवचनं, धूमवत्त्वादित्यादि । दृष्टान्त उदाहरणाभिधानं, 20 तद्विविधं श्रन्वयमुखेन व्यतिरेकमुखेन च । अन्वयमुखेन यथा ।