________________
8.
घड्दर्शनसमुच्चयः सटीकः ।
दृष्टान्तस्तु भवेदेष विवादविषयो न यः।। सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ २६ ॥
दृष्टोऽन्तो निश्चयो उति दृष्टान्तः । दृष्टान्तः पुनरेषो ऽयं भवेत् । एष क इत्याह । य उपन्यस्तः सन् विवादविषयो ॐ वादिप्रतिवादिनोमिथोविरुद्धो वादो विवादः, तस्य विषयो गोचरो न भवति । वादिप्रतिवादिनोरुभयोः संमत एवानुमानादौ दृष्टान्त उपन्यस्तव्य इत्यर्थः । पञ्चखवयवेषु वक्ष्यमाणो ऽपि दृष्टान्तः माध्यसाधनधर्मयोः प्रतिबन्धग्रहणस्थानमिति पृथगिहोपदिश्यते । तावदेव ह्यन्वयव्यतिरेकयुक्तो ऽर्थः स्खलति, 10 यावत्र स्पष्टदृष्टान्तावष्टम्भः । उक्तं च।
तावदेव चलत्यर्थो मन्तुर्विषयमागतः ।
यावनोत्तम्भनेनैव दृष्टान्तेनाबलम्ब्यते ॥ .. सिद्धान्तस्तु सिद्धान्तः पुनश्चतभेदो भवेत् । कुत इत्याह ।
सर्वतन्त्रादिभेदतः सर्वतन्त्रादिभेदेन । प्रथमः सर्वतन्त्र सिद्धान्तः । 15 श्रादिशब्दापतितन्त्र सिद्धान्तो ऽधिकरणसिद्धान्तो ऽभ्युपगम
सिद्धान्तश्च वेदितव्यः । इह तन्त्रशब्देन शास्त्रं विज्ञेयम् ॥ तत्र सर्वतन्त्राविरुद्धः खतन्त्रे ऽधिकतो ऽर्थः सर्वतन्त्र सिद्धान्तः सर्वेषां शास्त्राणां संप्रतिपत्तिविषयः, यथा प्रमाणनि प्रमेयसाधनानि, प्राणादौनौन्द्रियाणि, गन्धादयस्तदाः, प्रमाणेन 20 प्रमेयस्य परिच्छेद इत्यादि ॥ समानतन्त्रप्रसिद्धः परतन्त्रामिद्धः प्रतितन्त्रमिद्धान्तः, यथा भौतिकानौन्द्रियाणि यौगानां काण