________________
नैयायिकमतम् ।
णावस्थानं, सुखदुःखयोर्विवेकेन हानस्याशक्यत्वात् । दुःखं जिगासः सुखमपि जह्यात् । यस्माजन्मजरामरणप्रबन्धोच्छेदरूपः। परमः पुरुषार्थो ऽपवर्गः। स च तत्त्वज्ञानादवाप्यते ॥१२॥
संशयप्रयोजनयोः खरूपं प्राह । किमेतदिति संदिग्धः प्रत्ययः संशयो मतः। प्रवर्तते यर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥ २५ ॥
श्रयं किंशब्दो ऽस्ति क्षेपे 'किंसखा यो ऽभिद्रुह्यति'; अस्ति प्रभे 'किं ते प्रियं'; अस्ति निवारणे 'किं ते रुदितेन' ; अस्यपलापे 'किं ते ऽहं धारयामि'; अस्त्यनुनये 'किं ते ऽहं प्रियं करोमि'; अस्त्यवज्ञाने 'कस्खामुल्लापयते'; अस्ति 10 वितर्क 'किमिदं दूरे दृश्यते' । इह त वितर्के । दूरावलोकनेन पदार्थमामान्यमवबुध्यमानस्तविशेषं मंदिहानो वितर्कयति ‘एतत्प्रत्यक्षमूर्ध्वस्थितं वस्तु किं, तर्के स्थाणुर्वा पुरुषो वेति' । यः मंदिग्धो ऽनेककोटिपरामर्णी प्रत्ययो विमर्शः, म मंशयो मतः समत इति ॥
अथ प्रयोजनम् । यदर्थिवाद्यस्य फलस्यार्थित्वमभिलाषुकत्वं यदर्थित्वं, तस्मात्प्रवर्तते तत्तदीयसाधनेषु यत्नं कुरुते, तत्तु तत्पुनः माध्यं कर्तव्यतयेष्टं प्रयोजनं फलं यस्य वाञ्छया कृत्येषु प्रवर्तते तत्प्रयोजनमित्यर्थः ॥ प्रयोजनमूलत्वाच्च प्रमाणोपन्यामप्रवृत्तेः प्रमेयान्तर्भूतमपि प्रयोजनं पृथगुपदिश्यते ॥ .. .. 20
अथ दृष्टान्तमिद्धान्तौ व्याचिख्यासुराह ................
18