________________
৩২
षड्दर्शनसमुच्चयः सटोकः ।
वर्गभेदेन द्वादशविधं तदिति प्रमेयम् । [१, १, ८] तत्र शरीरादिदुःखपर्यन्तं हेयं, अपवर्ग उपादेयः । श्रात्मा तु कथञ्चिद्धेयः, कथञ्चिदुपादेयः । सुखदुःखादि भोक्तृतया हेयः, तदुन्मुक्ततयोपादेय इति । तच्च्छाद्वेषप्रयत्न सुखदुःखज्ञानादी5 नामाश्रय श्रात्मा । सचेतनत्वकर्तृत्व सर्वगतत्वादिधर्मैरात्मा प्रतीयते १। तद्भोगायतनं शरीरम् २ । पञ्चेन्द्रियाणि प्राणरसनचक्षुस्त्वक्श्रोत्राणि ३ । पञ्चार्था रूपरसगन्धस्पर्शशब्दाः | तत्र गन्धरमरूपस्पर्शाश्चत्वारः पृथिवीगुणाः । रूपरसस्पर्शास्त्रयोऽपां गुणाः । रूपस्पर्शौ तेजसो गुणौ । एकः स्पर्शो वायोर्गुणः । शब्द श्राका10 शस्य गुण इति । बुद्धिरुपलब्धिर्ज्ञानमित्यर्थः । सा चणिका, भोगस्वभावत्वाच्च संसारकारणमिति हैया ५ । इन्द्रियार्थसन्नि कर्भे सत्यपि युगपज्ज्ञानानुत्पादात् श्रान्तरसुखादिविषयोपलम्धेश्य बाह्यगन्धादिविषयोपलब्धिवत्करणसाध्यत्वादान्तरं करणं मनोऽनुमीयते । तत्सर्वविषयं तच्चाणु वेगवदाशसंचारि नित्यं 15 च ६ । वाग्मन: कायव्यापारः शुभाशुभफलः प्रवृत्तिः ७ । रागद्वेषमोहास्त्रयेा दोषाः। दुर्ष्यादौनामेतेष्वेवान्तर्भावः । तत्कृतचैष संसारः ८ । देहेन्द्रियादिसंघातस्य प्राक्तनस्य त्यागेन संघातान्तरग्रहणं प्रेत्यभावः । एष एव संसारः । प्रवृत्तिदोषजनितं सुखदुःखात्मकं मुख्यं फलं, तत्साधनं तु गौणम् १० । पीडा20 संतापस्वभावं दुःखम् । फलग्रहणेनाचिप्तमपौदं सुखस्यापि दुःखाविनाभावित्वात् दुःखत्वभावनार्थमुपदिश्यते ११ । श्रात्यन्तिको दुःखवियोगोऽपवर्गः सर्वगुणवियुक्रस्यात्मनः स्वरूपे