________________
नैयायिकमतम् ।
अथ वादतत्त्वमाह । प्राचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । या कथाभ्यासहेतुः स्यादसौ वाद उदाहृतः ॥२६॥
वादिप्रतिवादिनोः पक्षप्रतिपक्षपरियहः कथा । सा द्विविधा, वीतरागकथा विजिगीषुकथा च । यत्र वीतरागेण । गुरुण सह शिथ्यस्तत्त्वनिर्णयार्थं साधनोपालम्भौ करोति साधनं खपक्ष उपालम्भश्च परपचे ऽनुमानस्य दूषणं, मा वीतरागकथा वादसंज्ञयैवोच्यते । वादं प्रतिपक्षस्थापनाहौनमपि कुर्यात् प्रश्नदारेणैव ॥ यत्र विजिगीषुर्जिगोषणा सह लाभपूजाख्यातिकामो जयपराजयार्थ प्रवर्तते वीतरागो वा परानुग्रहार्थं 10 ज्ञानाकरसंरक्षणार्थं च प्रवर्तते, सा चतुरङ्गा वादिप्रतिवादिसभापतिप्राश्रिकाङ्गा विजिगीषुकथा जल्पवितण्डासंज्ञोका। तथा चोक्तम् । “तत्त्वाध्यवसायमरक्षणार्थं जल्पवितण्डे, बौजप्ररोहसंरक्षणार्थं कण्टकशाखापरिवरणवत्” इति । यथोक्तलक्षणोपपनश्छलजातिनिग्रहस्थानसाधनोपलम्भो जल्पः । स 15 प्रतिपक्षस्थापनाहौनो वितण्डेति वादजल्पवितण्डानां व्यक्तिः ॥
अथ प्रकृतं प्रस्तुमः । श्राचार्यो ऽध्यापको गुरुः, शिष्यो ऽध्येता विनेयः । तयोराचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । पक्षः पूर्वपक्षः प्रतिज्ञादिसंग्रहः, प्रतिपक्ष उत्तरपक्षः पूर्वपक्षप्रतिपन्थी पक्ष इत्यर्थः, तयोः परिग्रहात्खौकारात्, अभ्यासस्य 20 हेतरभ्यासकारणम्, या कथा प्रामाणिको वार्ता, असौ कथा