________________
.
घड्दर्शनसमुच्चयः सटीक
कार्यत्वात्, घटादिवदाकागादिवचेत्यन्वयव्यतिरेको हेतुः । १ । अदृष्टादौनि कस्यचित्प्रत्यक्षाणि प्रमेयत्वात्करतलादिवदित्यत्र कस्यचित्प्रत्यक्षत्वे माध्ये प्रत्यक्षस्थापि वस्तुनो विपक्षस्थाभावादेव केवलान्वयौ। २ । सर्ववित्कर्टपूर्वकं सर्व कार्य, कादाचित्कत्वात् । 5 यत्सर्ववित्कर्टपूर्वकं न भवति, तन्न कादाचित्कं, यथाकाशादि।
अत्र सर्वस्य कार्यस्य पक्षौकतत्वादेव सपक्षाभावात्केवलव्यतिरेको। प्रसङ्गदारेण वा केवलव्यतिरेको। यथा नेदं निरात्मकं जीवछरौरमप्राणदिमत्त्वप्रसङ्गालोष्टवदिति प्रसङ्गः। प्रयोगस्वित्थम् । इदं जीवच्छरौरं सात्मकं, प्राणादिमत्त्वात् । यन्त्र 10 मात्मकं तन प्राणादिमद्यथा लोष्टमिति प्रसङ्गपूर्वकः केवल
व्यतिरेकौति ३। एवमनुमानस्य भेदान् स्वरूपं च व्याख्याय विषयस्य चैविध्यप्रतिपादनायैवमाडः। अथवा तत्पूर्वकमनुमान त्रिविधं त्रिप्रकारं। के पुनस्त्रयः प्रकारा इत्याह । पूर्ववदि
त्यादि। पूर्व कारणं विद्यते यत्रानुमाने तत्पूर्ववत्, यच कार15 णेन कार्यमनुमौयते यथा विशिष्टमेघोबत्या भविष्यति वृष्टि
रिति। अत्र कारण-शब्देन कारणधर्म उन्नतत्वादिाह्यः । प्रयोगस्वेवम् । अमौ मेघा वृश्युत्पादकाः, गोरगर्जितत्वेऽचिरप्रभावत्वे च मत्युन्नतत्वात्। य एवं ते वृट्युत्पादका यथा
वृट्युत्पादकपूर्वमेघास्तथा चामी। तस्मात्तथा। ननूनतत्वादि20 धर्मयुक्तानामपि मेघानां वृष्यजनकत्वदर्शनात्, कथमैकान्तिकं
कारणात्कार्यानुमानमिति चेत् । न। विशिष्टस्योन्नतत्वादेर्धर्मस्य गमकत्वेन विवक्षितत्वात् । न च तस्य विशेषो नासर्वज्ञेन निश्चेतं