________________
नैयायिकमतम् ।
बोधाबोधरूपस्य विशिष्टफलजनकस्थानुमानवादित्यव्याप्तिलक्षणदोषः । अतोऽर्थापलब्धिरव्यभिचारादिविशेषणविशिष्टा तत्पूर्वकपूर्विका यतस्तदनुमानमित्येव व्याख्यानं युक्तिमत् । नन्वत्रापि त्रिविधग्रहणमनर्थकमिति चेत् । न । अनुमानविभागार्थत्वात् । पूर्ववदादिग्रहणं च खभावादिविषयप्रतिषेधेन पूर्ववदादिविषय- 5 ज्ञापनार्थम् । पूर्ववदायेव त्रिविधविभागेन विवक्षितं, न स्वभावादिकमिति प्रथमं व्याख्यानम् ॥ अपरे त्वेवं सूत्रं व्याचक्षते । तत्पूर्वकं प्रत्यक्षपूर्वकं त्रिविधमिति, त्रिभेदमनुमानम् । के पुनभैदा इत्याह । पूर्ववदित्यादि। पूर्व शब्देनान्वयो व्यपदिश्यते, व्यतिरेकात्पागवसीयमानत्वात् । पूर्वोऽन्वयः, स एवास्ति यस्य 10 तत्पूर्ववत्केवलान्वय्यनुमानम् १ । शेषो व्यतिरेकः, स एवास्ति यस्य तच्छेषवत्, केवलव्यतिरेकि च ५। सामान्येनान्वयव्यतिरेकयोः साधनाङ्गयोर्यदृष्टं तत्मामान्यतोदृष्टमन्वयव्यतिरेकि चेति ३ ॥ अथवा त्रिविधमिति त्रिरूपम् । कानि चौणि रूपाणौत्याह । पूर्ववदित्यादि। पूर्वमुपादीयमानत्वात्पूर्वः पक्ष: 15 मोऽस्थास्तौति पूर्ववत्पक्षधर्मत्वम् । शेष उपयुक्तादन्यत्वात्माधर्म्यदृष्टान्तः सोऽस्त्यति शेषवत्मपक्षे सत्त्वम् । सामान्यतोदृष्टमिति विपचे मनागपि यत्र दृष्टं विपक्षे सर्वचासत्त्वं तृतीयं रूपम् । चशब्दात्प्रत्यक्षागमाविरुद्धत्वासत्प्रतिपक्षत्वरूपदयं च । एवं च पञ्चरूपलिङ्गालम्बनं यत्तत्पूर्वकं तदन्वयव्यतिरेक्यनुमानम् । विपक्षा- 20 सत्त्वमपक्षमत्त्वयोरन्यतररूपस्यानभिसंबन्धात्तु चतरूपचिङ्गालम्बन केवलाचयि केवलव्यतिरेकि चानुमानम् । तत्राप्यनित्यः शब्दः,