________________
नेयायिकमतम् ।
पार्यत इति वक्तुं शक्यं, सर्वानुमानोच्छेदप्रसक्तः । तथाहि। मशकादिव्यावृत्तधमादौनामपि खमाध्याव्यभिचारित्वमसर्वविदा न निश्चेतुं शक्यमिति वक्तं शक्यत एव । अथ सुविवेचितं कार्य कारणं न व्यभिचरतीति न्यायाद्धमादेर्गमकत्वम् । तत्तत्रापि समानम्। यो हि भविष्यदृश्यव्यभिचारिणमुन्नतत्वादिविशेषमव- 5 गन्तुं समर्थः, स एव तस्मात्तमनुमिनोति, नाहीतविशेषः । तदुक्तम् । अनुमातरयमपराधो नानुमानस्येति शेषं कार्य तदस्थास्ति तच्छेषवद्यत्र कार्येण कारणमनुमोयते, यथा नदीपूरदर्शनादृष्टिः । अत्र कार्यशब्देन कार्यधर्मा लिङ्गमवगन्तव्यम् । प्रयोगस्वित्थम्। उपरिदृष्टिमद्देशसंबन्धिनी नदौ शौघ्रतरस्रोतस्वे 10 फलफेनसमूहकाष्ठादिवहनवे च सति पूर्णत्वात् तदन्यनदीवत् । सामान्यतोदृष्टं नामाकार्यकारणभूतेनाविनाभाविना लिङ्गेन यत्र लिङ्गिनोऽवगमो, यथा बलाकया सलिलस्येति । प्रयोगस्तु । श्रयं बलाकाजहहृत्तिः प्रदेशो जलवान्बलाकावन्त्वात्, संपतिपबदेशवत्, यथा वान्यवृक्षोपरिदृष्टस्यादित्यस्यान्यपर्वतोपरि- 18 दर्शनेन गतेरवगमः । प्रयोगः पुनः रवेरन्यत्रदर्शनं गत्यविनाभूतं, अन्यत्रदर्शनत्वात्, देवदत्ताद्यन्यदर्शनवत्। अत्र यथा देवदत्तादेरन्यत्रदृष्टस्यान्यवदर्शनं व्रज्यापूर्व, तथादित्यस्थापौति, अन्यत्रदर्शनं च गतेः कार्य संयोगादेर्गतिकार्यत्वात् ॥ अन्ये त्वेवं वर्णयन्ति । समानकालस्य स्पर्शस्य रूपादकार्यकारणभूतात्पति- 20 पत्तिः सामान्यतोदृष्टानुमानप्रभवा । अत्र प्रयोगः । ईदृशस्पर्शमिदं वस्त्रमेवंविधरूपत्वात् । तदन्यतादृशवस्त्रवत् । एकं चूतं