________________
५८
घडदर्शनसमुच्चयः सटौकः ।
आत्मा सहेति मनसा मन इन्द्रियेण. खार्थन चेन्द्रियमिति क्रम एष शौघ्रः । योगो ऽयमेव मनसः किमगम्यमस्ति
यस्मिन् मनो व्रजति तत्र गतो ऽयमात्मा ॥ 5 ज्ञानसंग्रहणं सुखादिनिवृत्त्यर्थ, सुखादौनामज्ञानरूपत्वात् । सुखादयो ह्याहादादिखभावा ग्राह्यतयानुभूयन्ते, ज्ञानं त्वर्थावगमखभावं ग्राहतयानुभूयत इति ज्ञानसुखाद्योéदो ऽध्यक्षसिद्ध एव। अव्यपदेश्यं नामकल्पनारहितं, नामकल्पनायां हि शाब्दं
स्यात् । श्रव्यपदेश्यपदग्रहणभावे हि व्यपदेशः शब्दस्तेनेन्द्रियार्थ10 सन्निकर्षण चोभाभ्यां यदुत्पादितं ज्ञानं तदप्यध्यक्षफलं स्यात्तनिवृत्त्यर्थमव्यपदेशपदोपादानम् । इदमत्र तत्त्वम् । चक्षुर्गाशब्दयोर्यापारे सत्ययं गौरिति विशिष्टकाले यज्ञानमुपजायमानमुपलभ्यते, तच्छब्देन्द्रियोभयजन्यत्वे ऽपि प्रभृतविषय
वेन शब्दस्य प्राधान्याच्छाब्दमिव्यते, न पुनरध्यक्षमिति । 1 इन्द्रियजन्यस्य मस्मरौचिषूदकज्ञानस्य शक्तिशकले कलधौत
बोधादेश्च निवृत्त्यर्थमव्यभिचारिपदोपादानम्। यदतस्मिंस्तदित्युत्पद्यते तद्व्यभिचारि ज्ञानम् । तद्व्यवच्छेदेन तस्मिंस्तदिति ज्ञानमव्यभिचारि। व्यवसीयते ऽनेनेति व्यावसायो विशेष
उच्यते। विशेषजनितं व्यवसायात्मकं, अथवा व्यवसायात्मकं 20 निश्चयात्मकम् । एतेन संशयज्ञानमनेकपदार्थालम्बनवादनिश्च
यात्मकत्वाच्च प्रत्यक्षफलं न भवतीति ज्ञापितम् ॥ नन्वेवमपि ज्ञानपदमनर्थकमन्यविशेषणाभ्यां ज्ञानस्य लब्धत्वात्, न ।