________________
नैयायिकमतम् ।
सूत्रम् । “इन्द्रियार्थमत्रिकर्षात्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्” इति [१, १, ४] ॥
इन्द्रियं चक्षुरादिमनःपर्यन्तं, तस्यार्थः परिच्छेद्य इन्द्रियार्थ इन्द्रियविषयभूतो ऽर्थो रूपादिः, रूपादयस्तदर्था इति वचनात् । तेन सन्निकर्षः प्रत्यासत्तिरिन्द्रियस्य प्राप्तिः संबन्ध । इति यावत् । स च षोढा। इन्द्रियेण सार्ध द्रव्यस्य संयोग एव १ । रूपादिगुणानां संयुक्तममवाय एव द्रव्ये समवेतत्वात् २ । रूपत्वादिषु गुणसमवेतेषु संयुक्तसमवेतसमवाय एव ३ । शब्दे ममवाय एवाकाशस्य श्रोत्रत्वेन व्यवस्थितत्वात्, शब्दस्य तद्गुणत्वेन तत्र समवेतत्वात् ४ । शब्दत्वे समवेतसमवाय एव शब्दे समवे- 10 वात् ५। समवायाभावयोर्विशेषणविशेष्यभाव एव । उक्तरूपपञ्चविधसंबन्धसंबद्धेषु वस्तुषु समवायघटादिदृश्याभावयोर्विशेषणत्वं विशेष्यत्वं भवतीत्यर्थः । तद्यथा । तन्तवः पटसमवायवन्तः तन्तुषु पटसमवाय इति। घटशून्यं भूतलमिह भूतले घटो नास्तौति ६ घोढा मत्रिकर्षः ॥
15 अथ निकर्षग्रहणमेवास्तु सं-ग्रहणं व्यर्थम् । न, सं-शब्दग्रहणस्य मन्त्रिकर्षषट्कप्रतिपादनार्थत्वात् । एतदेव सन्निकर्षषज्ञ ज्ञानोत्पादे समर्थं कारणं, न संयुक्तसंयोगादिकमिति संग्रहणाल्लभ्यते । इन्द्रियार्थमनिकर्षादुत्पन्नं जातम् । उत्पत्तिग्रहणं कारकत्वज्ञापकार्थम् । अत्रायं भावः। इन्द्रियं हि 20 नैकव्यादर्थेन सह संबध्यते, इन्द्रियार्थसंबन्धाच्च ज्ञानमुत्पद्यते । यदुक्तम् ।