________________
षड्दर्शनसमुच्चयः सटीकः ।
अर्थोपसन्धिस्तु प्रमाणस्य फलम् । अयमत्र भावः । अव्यभिचारादिविशेषणविशिष्टार्थोपलब्धिजनिका सामग्रौ तदेकदेशो वा चक्षुःप्रदीपज्ञानादिर्बोधरूपो ऽबोधरूपो वा माधकतमत्वात्प्रमाणम् । तजनकत्वं च तस्य प्रामाण्यम् । तज्जन्यार्थोप5 सन्धिः फल मिति। इन्द्रियजवलिङ्गजत्वादिविशेषणविशेषिता
सैवोपलब्धिर्यतः स्यात्, तदेव प्रत्यक्षादिप्रमाणस्य विशेषणलक्षणं वक्ष्यते । केवलमत्राव्यपदेश्यमिति विशेषणं न शाब्दे संबन्धनौचं, तस्य शब्दजन्यत्वेन व्यपदेश्यत्वात्। अथ प्रमाणस्य भेदानाह
"तचतुर्विधम्"। तत्प्रमाणं, चतुर्विधं चतुर्मेदम् ॥ 10 अथ तच्चातुर्विध्यमेवाह ।
प्रत्यक्षमनुमानं चोपमानं शाब्दिकं तथा। तन्द्रियार्थसंपर्कोत्पन्नमव्यभिचारि च ॥ १७॥ व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम् ।
प्रत्यक्षमनुमानं तु तत्पूर्व विविधं भवेत् ॥ १८ ॥ 15 पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा। तवाद्यं कारणात्कार्यानुमानमिह गौयते ॥१६॥
प्रत्यक्षमध्यक्षं, अनुमानं लैङ्गिक, चकारः समुच्चयार्थः, उपमानमुपमितिः, तथाशब्दस्य समुच्चयार्थत्वात् शाब्दिकं च शब्द भवं शाब्दिकमागम इत्यर्थः । 20 अथ प्रत्यक्षस्य लक्षणं लक्षयति । “तद्रियार्थ" इत्यादि।
तचेति तेषु प्रमाणेषु प्रथमं प्रत्यक्षमुच्यते । अत्रास्येदमक्षपादप्रणोतं